________________
१६२
सर्वदर्शनसंग्रहेनन्विदं रजतमिति ज्ञानमेकमनेकं वा । न तावदाद्यः । अपसिद्धान्तापत्तेरसंभवा । तथाहि-शुक्तीदमंशेन्द्रियसंप्रयोगादिदमाकारान्तःपरिणामरूपमेकं शानं जायते । न च तत्र कलधौतं विषयभावमाकल्पयितुमुत्सहसे । असंप्रयुक्तस्वात्तस्य । विषयत्वाङ्गीकारे सर्वज्ञत्वापत्तेः। न चै चक्षुरन्वयव्यतिरेकानुबिधायितया तज्ज्ञानस्य तज्जन्यत्वं वाच्यम् । इदमंशज्ञानोत्पत्ती तदुपक्षयोपपत्तेः । न चापि संस्काराद्रजतज्ञानस्य जन्म । स्मृतित्वापत्तेः । अथेन्द्रियदोषस्य तत्करणत्वम् । तदप्ययुक्तम् । स्वातन्त्र्येण तस्य ज्ञानहेतुत्वानुपपत्तेः । न हि ग्रहणस्मरणाभ्यामन्यः प्रकारः समस्ति । तस्मादिदमंशरजततादात्म्यविषयमेकं विज्ञानं न घटते । नाप्यनेकमख्यांतिमतापत्तेरिति चेदुच्यते
प्रथमं दोषकलुषितेन चक्षुषेदतामात्रविषयान्तःकरणवृत्तिरुत्पद्यते । अनन्तरं तया वृत्त्या चैतन्यावरणाभिभवे सति तच्चैतन्यमभिव्यज्यते । पश्चादिदमंशसन्यनिष्ठाऽविद्या रागादिदोषकलुषिता कलधौताकारेण परिणमते । इदमाकारान्तःकरणपरिणामावच्छिन्नचैतन्यनिष्ठा कलधौतगोचरपरिणामसंस्कारसचिया कलधौतज्ञानाभासाकारेण परिणमते। तौ च रजतवृत्तिपरिणामौ स्वाधिष्ठानेन साक्षिचैतन्येनाव्यवधानेन भास्यते । तथा च सवृत्तिकाया अविद्यायाः साक्षिभास्यत्वाभ्युपगमे वृत्त्यन्तरवेद्यत्वाभावान्नानवस्था । यद्यप्यन्तःकरण. तिरविद्यावृत्तिश्चेति द्वे इमे ज्ञाने तथाऽपि विषयाधीनं फलम् । ज्ञातो घट इति विषयावच्छिन्नतया फलप्रतीतेः । तद्विषयश्च सत्यमिथ्याभूतयोरिदमंशरजता. शयोरन्योन्यात्मकतयैकत्वमापनः । तस्माद्विषयावच्छिन्नफलस्याप्येकत्वाज्ञानक्यापचर्यते । तदुक्तम्
शुक्तीदमंशचैतन्यस्थिताऽविद्या विज़म्यते । रागादिदोषसंस्कारसचिवा रजतात्मना ॥ इदमाकारवृत्त्यक्तचेतन्यस्था तथाविधा। विवर्तते तद्रजतज्ञानाभासात्मनाऽप्यसौ ॥ सत्यमिथ्यात्मनोरक्यादेकस्तद्विषयो मतः ।
तदायत्तफलैकत्याज्ज्ञानक्यमुपचर्यते ।। इति । पञ्चपादिकायामपि फलैक्याज्ज्ञानक्यमुपचर्यत इत्यभिप्रायेण सा .मेव ज्ञान मेकफलं जनयतीत्युक्तम् ।
१ ख. °च्च शु। २ ख. रूपात्मकं । ३ ख. चक्षु । ४ ख. तदपेक्षाया उप । ५ स. ख्या. विम।