________________
शांकरदर्शनम् ।
.१६३ ननु शक्तिकामस्तके भाव्यमानस्य कलधौतस्य तत्रैव सत्यत्वाभ्युपगमे नेदं रजतमिति निषेधः कथं प्रभवेदिति चेन्न । प्रातिभासिकसत्यत्वेऽपि व्यावहारिकसत्यत्वाभावेन प्रतिपन्नोपाधौ प्रतियोगित्वसंभवात् । तदुक्तं पञ्चपादिका. विवरण-त्रिविधं सत्त्वम् । परमार्थसत्त्वं ब्रह्मणः । भर्थक्रियासामर्थ्य सत्त्वं मायोपाधिकमाकाशादेः । अविद्योपाधिकं सत्त्वं रजतादेरिति । अन्यत्राप्युक्तम्
कालत्रये ज्ञातृकाले प्रतीतिसमये तथा । बाधाभावात्पदार्थामा सत्त्ववैविध्यमिष्यते । तात्विकं ब्रह्मणः सत्त्वं व्योमादेावहारिकम् ॥ रूप्यादेरर्थजातस्य प्रातिभासिकमिष्यते ॥ इति । लौकिकेन प्रमाणेन यद्भाध्यं लौकिकेऽवधौ । तत्मातिभासिकं सत्त्वं बाध्यं सत्येव मातरि । वैदिकेन प्रमाणेन यद्बाध्यं वैदिकेऽवधौ ।
तव्यावहारिकं सत्त्वं बाध्यं मात्रा सहैव तत् ॥ इति च। ततः ख्यातिषाधान्यथानुपपत्या भ्रान्तिगोचरस्य मायामयस्य रजतादेः सद. सविलक्षणत्वलक्षणमनिर्वचनीयत्वं सिद्धम् । तमवोचचित्सुखाचार्य:-. .
प्रत्येक सदसत्त्वाभ्यां विचारपदवीं न यत् । ..
गाहते तदनिर्वाच्यमाहुर्वेदान्तवादिनः॥ (चित्सु० पृ० ७९) इति । ननु मायाविद्ययोः स्वाश्रयव्यामोहहेतुत्वतदभावाभ्यां भेदस्य जागरूकत्वेनाविद्यामयत्वे वक्तव्ये मायामयत्वोक्तिरारोप्यस्यायुक्तेति चेत्तदयुक्तम् । अनिर्व. चनीयत्वतत्त्वाभासप्रतिबन्धकत्वादिलक्षणजातस्य मायाविद्ययोः समानत्वात् । किंचाऽऽश्रयशब्देन द्रष्टोच्यते कर्ता वा । नाऽऽद्यः । मन्त्रौषधादिनिमित्तमायादर्शिनस्तस्य व्यामोहदर्शनात् । न द्वितीयः । विष्णोः स्वाश्रितमाययैव रामाबतारे मोहितत्वेन तत्र मायावित्वस्याप्रयोजकत्वात् । बाधनिश्चयमन्त्रादिप्रतीकारबोधयोरेव प्रयोजकत्वात् । अपरथा पङ्ग्वन्धवत्कर्ताऽपि व्यामुझेत । न चेच्छानुविधानाननुविधानाभ्यां तयोर्भेद इति भणितव्यम् । मायास्थळे मणिमन्त्रौषधादिप्रयोगवदविद्यास्थलेऽपि द्विचन्द्रकेशोण्डूकादिविभ्रमनिमित्तामुल्य. षष्टम्भादावपि स्वातन्त्र्योपलम्भात् । अत एव तत्र तत्र श्रुतिस्मृतिभाष्यादिषु मायाविद्ययोरभेदेन व्यवहारः संगच्छते । कचिद्विक्षेपप्राधान्ये नाऽऽवरणमाधा
१ ख. तदैव । २ ख. °णम । ३ ख. 'कत्वविल । ४ क.-'तिसूत्रभा'।