________________
१.६४
सर्वदर्शनसंग्रहे
न्येन च मायाविद्ययोर्भेदे तद्व्यवहारो न विरुध्यते । तदुक्तम्मा विक्षिपदज्ञानमीशेच्छावशवर्ति वा । अविद्याच्छादयत्तत्रं स्वातन्त्र्यानुविधायेि वा ।। इति । नन्वविद्यासद्भावे किं प्रमाणम् । अहमज्ञो मामन्यं न जानामीति प्रत्यक्षमतिभास एव । ननु ज्ञानाभावविषयोऽयं नाभिप्रेतमर्थं गर्भयतीति चेन्न तावदनुपलब्धिवादिनश्रोद्यमेतत् । परोक्षप्रतिभासहेतुत्वात्तस्याः । अयमपि परोक्षप्रतिभास एवेति चेन्न तात्रल्लिङ्ग शब्दानुपपद्यमानार्थजन्यः । ज्ञातकरणत्वात्तेषाम् । न चैतत्सामग्रीकाले ज्ञानमस्ति । अनुभूयते वा । अनुपलब्ध्या जन्यत इति चेन तावदियमज्ञाता करणम् । प्रत्यक्षेतरस्य ज्ञातकरणत्वनियमात् ! नापि ज्ञातैव करणम् | अनुपलब्ध्यनवस्थानात् । न च यथा परेषाभावग्रहणे योग्यानुपलब्धिः सहकारिणी तथ नः करणमिति शङ्कन्यम् । ज्ञानकरण इव सहकारिणि ज्ञातैत्वनियमाभावात् । अस्तु वा तथा ज्ञेयाभावग्रहणे करणम् । ज्ञानाभावग्रहणे करणं न भवत्येवेति वक्ष्यते ।.
1
प्रत्यक्षाभाववादे तु प्रत्यक्षेण तावद्धर्मिप्रतियोगिज्ञानयोः सतोरात्मनि ज्ञानमात्राभावग्रहणं न ब्रूयात् । घटति भूतले घटाभावस्येव ज्ञानमात्राभावस्य ग्रहीतुमशक्यत्वात् । तयोरसतोस्तु सुतराम् । कारणाभावात् । अतोऽपि योग्यानुपलब्ध्या वा फललिङ्गाद्यभावेन वाऽऽत्मनि ज्ञानमात्राभावग्रहणं दुर्लभमिति परमतेऽप्ययं न्याय: समानः । तदेवमात्मनि प्रत्यक्षेण वाऽन्येन वा ज्ञानमात्राभावस्य ग्रहणमशक्यमिति स्थितम् ।
93
ननु ज्ञानविशेषाभावः प्रत्यक्षेण गृह्यताम् । न तावत्स्मरणाभावः । अभावग्रहणे प्रतियोगिग्रहणस्य कारणत्वात् । नाप्यनुभवाभावः । तस्यावर्जनीयत्वात् । नन्वात्मनि घटानुभवाभाव: प्रत्यक्षविषयस्तर्ह्यहमज्ञ इति ज्ञानसामान्यवचनो जानातिर्ज्ञानविशेषेऽनुभवे लक्षणया वर्तनीयः । लक्षणा च संबन्धेऽनुपपत्तौ च सत्यां वर्तते । संबन्धस्तावदनु भवत्वज्ञानत्वयोरेकव्यक्तिसमावेशी व्याप्यव्यापकभावो वा विद्यत एव । अनुपपत्तिं तु न पश्यमः । नन्वनुभवाभावे प्रत्यशँस्य प्रमेयलाभस्तेनैव तस्यार्थवत्ता सिध्यति । सत्यम् । प्रयोजनमेतन्नानुपआत्मनि ज्ञानमात्राभावं
98
पत्तिः । अन्योन्याश्रयात् । नन्वहमज्ञ इत्यत्र नञ्,
१ ख. मामाचिक्षिपति ज्ञा' । २ ख. ' मयेदिति । ३ ख 'महार' । ४ था क' । ५ ख. 'तत्त्वं नेमा । ६ ख. 'वदिति । ७ ख त्रावभा । ८ क - गाभा । ९ ख. 'त्रावभा । १० ख. 'गिस्मरण' । ११ ख. 'चने ज्ञाना' । १२ ख. शेषानु । १३ ख. 'नीयल' । १४ ख. 'श्याम्य न' । १५ ख. 'क्षप्र ं । १६ ख. 'पत्तेरन्यो ।