________________
शांकरदर्शनम् ।
१६५ म ए॒ते । ज्ञानवति तस्मिस्तदभावात् । नाप्यनुभवाभावम् । ज्ञानोक्तस्तदनाभधायकत्वात् । नैरर्थक्यं च न युक्तमित्यनयैवानुपपत्त्या लक्षणेति चेदुक्त लक्ष. गैवाविद्या तदर्थोऽस्तु । संदेह इति चेन्न । असमत्वात्कोटिद्वयस्य । अन्यत्र हि प्रतियोगिनिवृत्तिनअर्थः । अत्र तु प्रतियोगिव्याप्यनिवृत्तिरिति । जानातिसमभिव्याहृतस्य नमः कचिदुक्तलक्षणाविद्याविषयत्वसिद्धिमन्तरेण न संदेह इत्यः वईयभावेन सैव जानातिसमभिन्याहृतस्ये नत्रः सर्वत्र तद्विषयत्वमवगमयति विलुम्पति ज्ञानाभावकोटयन्तरमिति क संदेहावकाशः । तदेवं लक्षणाहेत्वभावेऽनुभवाभावोऽप्यात्मनि न प्रत्यक्षेण गृह्यत इति परिशेषादुक्तलक्षणाऽविधवाज्ञ इति प्रतिभासस्य विषय इति स्थितम् । । अस्तु वा ज्ञानाभावप्रतिभासः । अयमभावश्च प्रतियोगी यत्र निषिध्यते न ततस्तत्त्वान्तरमन्यदधिकरणभावात् । मा भदन्यभावत्वमन्याभावत्वं तु स्यात्। नन तदपि विरुद्धम् । सत्यं सति भेदे । स च प्रमाणात्। तच्च सति प्रतियोग्या भावधिकरणतस्तत्त्वान्तरे । ननु घटवति भूतले घटाभावमितिव्यवहृती स्यातामिति चेन्मा भूतामेते प्रतियोगिना सहानुभूयमानेऽधिकरणे । प्रतियोगित स्मरणे सत्यनुभूयमानेऽधिकरणे तु स्याताम् । एवमप्युपपत्तौ न तत्त्वान्तरविषयत्वं कल्प्यम् । काऽनुपपत्तिरिति चेदाधकामावस्तावदुक्त एव । बाधकं तु कल्पनागौरवमेव । तथाहि-तत्त्वान्तरत्वं तावदेकं कल्प्यम् । तस्यापरोक्षत्वायेन्द्रियसंनिकर्षः कल्प्यः । स च संयोगादिर्न भवतीति संयुक्तविशेषणत्वादिः कल्य इत्यतो वरमुक्तलक्षणस्याधिकरणस्य व्यवहारविषयेऽङ्गीकारः । सति चैवं ज्ञानाभावेनापि प्रतियोगिस्मृती सत्यामनुभूयमानमधिकरणं ज्ञातैव । स च न केवलमन्तःकरणम् । जडत्वात् । नापि केवल आत्मैव । अपरिणामित्वा. दगुणत्वाच्च । अत उभयोरभेदाध्यासः । आत्माध्यासश्चोक्तलक्ष गाऽविद्याऽऽत्मेत्यायातमविद्यायामेवाहमज्ञ इति प्रतिमासः प्रमाणमिति ।
अनुमानं च-विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरण. स्वनिवर्त्य स्वदेशगतवस्त्वन्तरपूर्वकमप्रकाशितार्थप्रकाशकत्वात् । अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । वस्तुपूर्वकमित्युक्त आत्मवस्तुपूर्वकत्वेनार्थान्तरता ।
१ ख. "तस्तदाभा । २ ख. निवा नार्थः । ३ निवोऽनर्थ इति । ४ ख. श्यं भवति से । ५ ख. "स्य नजि त । ६ ख. देव ल । ७ ख. 'दवि । ८ ख. सत्त्वं । ९ ख. 'वात्स्वाधि। १० ख. न्तरत्वेनास्य । घ । ११ ख. °प्युत्पत्तौ नत्वान्त । १२ ख. शेषेण । १३ ख. °षयाङ्गीकारः सति ज्ञा । १४ ख. सत्वान । १५ ख. सात्माध्या । १६ ख. °ति वाऽनु । १७ ख. "देश ग।