________________
१६६
सर्वदर्शनसंग्रहे-. तदर्थ घस्त्वन्तरेति । तथाऽपि विषयभूते वस्त्वन्तरेऽर्थान्तरता । तदर्थ स्वदेशगतेति । अदृष्टादिकं प्रत्यादेष्टुं स्वनिक्योंत । उत्तरज्ञाननिवयं प्रथमज्ञानं निवर्तयितुं स्वविषयावरणेति । प्रागभावं प्रतिक्षेप्तुं स्वमागभावव्यतिरिक्तेति । स्वप्रागभावव्यतिरिक्तपूर्वकमित्युक्ते विषयेणार्थान्तरता । तदर्थ विषयावरणति । तादृशमन्धकारं व्यासेद्धं स्वनिवत्येति । विषयगतामज्ञाततां निराकर्तुं स्वदेशगतेति । मिथ्याज्ञानमपोहितुं वस्त्वन्तरेति । धारावाहिकविज्ञाने व्यभिचारं व्यासेद्धमप्रकाशितति । मध्यवर्तिप्रदीपप्रभायां साध्यसाधनवैधुर्यप्रतिरोधाय प्रथमोत्पमविशेषणम् । सौरालोकव्याप्तदेशस्थप्रदीपप्रभाप्रतिक्षेपायान्धकारेति । न च ज्ञानसाधके प्रमाणे व्यभिचारः शङ्कनीयः । विप्रतिपनं प्रत्यसत्त्वनिवृत्तिमात्रस्य प्रमाणकृत्यत्वात् । तदुक्तं देवताधिकरणे कल्पनरुकारैः-अनुमानादिभिरसत्त्वनिवृत्तिः क्रियत इति । ननु साधनविकलो दृष्टान्त इति चेन्न । प्रकाशशब्देन तमोविरोध्याकारस्य विवक्षितत्वात् । तदुक्तं विवरणविवरणे सहजसर्वज्ञविष्णुभट्टोपाध्यायः-न चात्र पक्षदृष्टान्तयोरेकप्रकाशरूपानन्वयः शङ्कनीयः । तमो. विरोध्याकारो हि प्रकाशशब्दवाच्यः । तेनाऽऽकारेणैक्यमुभयत्रास्तीति । नरेन्द्रगिरिश्रीचरणस्त्वित्यमुक्तम्-अप्रकाशितप्रकाशव्यवहारहेतुत्वं हेत्वर्थः । तस्य चोभयत्रानुगतत्वान्नासिद्धयादिरिति । श्रुतेश्च । भूयश्चान्ते विश्वमायानिवृत्तिः (श्वे० १ । १० ) इत्यादिका श्रृंतिः ।
तरत्यविद्या वितता हृदि यस्मिन्निवेशिते ।
योगी मायाममेयाय तस्मै विद्यात्मने नमः ॥ इति च । .. एतेनैतत्प्रत्युक्तं यदुक्तं भास्करेण-तपणकचरणं प्रमाणशरणे भेदाभेदवादिनां भावरूपमज्ञानं नास्ति किंतु ज्ञानाभाव इति । तथा च भास्करप्रणीतशारीरकमीमांसाभाष्यग्रथिः—यदेव पररूपादर्शनं सैवाविद्येति । भावरूपाज्ञानानभ्युपगमे जीवेश्वरादिविभागानुपपत्तेः । न च भाविकः परमात्मनोंऽशो जीव इति वाच्यम् । निष्कलं 'निष्क्रियं शौन्तं निरवद्यं निरञ्जनम् ' ( श्वे० ६ । १९ ) इत्यादिश्रुतिविरोधात् ।
केचन शाक्ताः-शक्ति मायाशब्दार्थभूतां जगत्कारणत्वेनाङ्गीकृतां सत्यामभ्युपेत्य मातुलिङ्गगदाखेटषिधारिणी महालक्ष्मीस्तस्याः प्रथमावतार इति
१ ख. गत इति । २ क.-'ति । प्रा। ३ क.–णतत्वा । ४ ख. भक्कोपा । ५ ख. 'शब्दो वाच्यते साका' । ६ ख. "रेन्द्रागि । ७ ख. तव्य । ८ ख. त्वर्थोऽस्थ । ९ ख. श्रुतिश्च । ब। १० ख. क्तं भा। ११ ख. नं नैवा । १२ शान्तम् । इ।