________________
१२६ . मतिर क्षणः संबन्धः । स च श्रुत्यादिप्रसिद्ध इति प्रागेवावादिषम् । मोक्षमपेक्षमाणा एवाधिकारिण इत्यर्थसिद्धम् । न चाथातो ब्रह्मजिज्ञासा (ब्र० सू० १।१।१) इत्यादावधिकारिणोऽर्थतः सिद्धिराशङ्कनीया। तत्राथशब्देनाऽऽनन्तर्याभिधानप्रणाडिकयाऽधिकारिसमर्पणसिद्धावार्थिकत्वशङ्कानुदयात् । अत एवोक्तं श्रुतिप्राप्ते प्रकरणादीनामनवकाश इति । अस्यार्थ:-यत्र हि श्रत्याऽर्थो न लभ्यते तत्रैव करणादयोऽथ समर्पयन्ति नेतरत्र । यत्र तु शब्दादेवार्थस्योपलम्भस्तत्र नेतरस्य संभवः । शीघ्रबोधिन्या श्रुत्या विनियोगस्य बोधनेन मिराकाङ्क्षतयेतरेषामनवकाशात् । किंच श्रुत्या बोधितेऽर्थे तद्विरुद्धार्थ प्रकरणादि समर्पयत्यविरुद्धं वा । न प्रथमः । विरुद्धार्थबोधकस्य तस्य बाधितत्वात् । न चरमः । वैयर्थ्यात् । तदाह-श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमविप्रकर्षात् ( जै० सू० ३.३।१४ ) इति ।
बाधिकैव श्रुतिनित्यं समाख्या बाध्यते सदा ।
मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया ॥ इति च ।. तस्माद्विषयादिमत्त्वाद्ब्रह्मविचारकशास्त्रवद्योगानुशासनं . शास्त्रमारम्भणीयमिति स्थितम् ।
ननु व्युत्पाद्यमानतया योग एवात्र प्रस्तुतो न शास्त्रामिति चेत्सत्यम् । प्रतिपाद्यतया योगः प्राधान्येन प्रस्तुतः। स च तद्विषयेण शास्त्रेण प्रति. पाद्यत इति तत्प्रतिपादने करणं शास्त्रम् । करणगोचरश्च कर्तव्यापारो न कर्मगोचरतामाचरति । यथा छेत्तुर्देवदत्तस्य व्यापारभूतमुद्यमननिपातनादि कर्म करणभूतपरशुगोचरं न कर्मभूतवृक्षादिगोचरम् । तथा च वक्तुः पतञ्जलेः प्रवचनव्यापारापेक्षया योगविषयस्याधिकृतता करणस्य शास्त्रस्य । अभिधानव्यापारापेक्षया तु योगस्यैवेति विभागः । ततश्च योगशास्त्रस्याऽऽरम्भः संभावनां भजते । अत्र चानुशासनीयो योगश्चित्तवृत्तिनिरोध इत्युच्यते । ननु युजिर्योग इति संयोगार्थतया परिपठितायुजेनिपन्नो योगशब्दः संयोगवचन एव स्यान्न तु निरोधवचनः । अत एवोक्तं याज्ञवल्क्येन
. संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः ।। इति ।
' १ क. ख. ग. दिष्टम् । मो । घ. 'दिष्टमों। २ क.-. माणा श्रवणाधि । ३ ङ.-च.
धाने प्र । ४ क. ख. ग. घ. प्रमाणा'। ५ क. ख. सनशा । ६ क. रंक। ७ घ. स्यैव प्रतिपाद्यतोत।