________________
पातञ्जलदर्शनम् ।
१२५
इति स्मृतिसंभवात् । तथा च वृद्धिरादैच् ( पा० सू० १ । १ । १ ) इत्यादी वृद्धयादिशब्दवदथशब्दो मङ्गलार्थः स्यादिति चेन्मैवं भाषिष्ठा: । अर्थान्तरा. भिधानाय प्रयुक्तस्याथशब्दस्य वीणावेण्वादिध्वनिवच्छ्रवणमात्रेण मङ्गलफलस्वोपपत्तेः । अथार्थान्तरारम्भवाक्यार्थधीफलकस्याथशब्दस्य कथमन्यफलक तोत चेन्न । अन्यार्थं नीयमानोदकुम्भोपलम्भवत्तत्संभवात् । न च स्मृतिव्याकोपः । माङ्गलिकाविति मङ्गलप्रयोजनत्वविवक्षया प्रवृत्तेः ।
नापि पूर्वप्रकृतापेक्षोऽथशब्दः । फलत आनन्तर्याव्यतिरेकेण प्रागुक्तदूषणानुषङ्गात् । किमयमथशब्दोऽधिकारार्थोऽथाऽऽनन्तर्यार्थ इत्यादिविमर्श वाक्ये पक्षान्तरोपन्यासे तत्संभवेऽपि प्रकृते तदसंभवाच्च । तस्मात्पारिशेष्यादधिकारपदवेदनीयमारम्भार्थोऽथशब्द इति विशेषो भाष्यते । यथाऽथैष ज्योतिरथैष विश्वज्योतिरित्यत्राथशब्दः क्रतुविशेषमारम्भार्थः परिगृहीतो यथा चाथ शब्दानुशासनम् ( पात०म० भा० १ । १ ) इत्यत्राथशब्दो व्याकरणशास्त्राधिकारार्थस्तद्वत् । तदभाषि व्यासभाष्ये योगसूत्र विवरणपरे - अथेत्ययमधिकारार्थः प्रयुज्यत इति । तद्वयाचख्यौ वाचस्पतिः । तदित्थम् - अमुष्यायशब्दस्याधिकारार्थत्वपक्षे शास्त्रेण प्रस्तूयमानस्य योगस्योपवर्तनात्समस्तशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यस्य सुखावबोधप्रवृत्तिंर्भवतीत्यथशब्दस्याधिकारार्थत्वमुपपन्नम् ।
ननु ' हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ' इति याज्ञवल्क्यस्मृतेः पतञ्जलिः कथं योगस्य शासितेति चेदद्धा । अत एव तत्र तत्र पुराणादौ विशिष्य योगस्य विप्रकीर्णतया दुर्ग्राह्यार्थत्वं मन्यमानेन भगवता कृपासिन्धुना फणिपतिना सारं संजिघृक्षुणाऽनुशासनमारब्धं न तु साक्षाच्छासनम् । यदाऽयमथब्दोऽधिकारार्थस्तदैवं वाक्यार्थः संपद्यते - योगानुशासनं शास्त्रमधिकृतं वेदिव्यमिति । तस्मादयमथशब्दोऽधिकारद्योतको मङ्गलार्थश्रेति सिद्धम् ।
तत्र शास्त्रे व्युत्पाद्यमानतया योगः ससाधनः सफलो विषयः । तद्वयुत्पादनमवान्तरफलम् । व्युत्पादितस्य योगस्य कैवल्यं परमप्रयोजनम् । शास्त्रयोगयोः प्रति-पाद्यप्रतिपादकभावलक्षणः संबन्धः । योगस्य कैवल्यस्य च साध्यसाधनभावल
१ क. ख. ग. घ. 'वणम' । ङ. --' - 'वणे मङ्गलकार्यतयोपपत्तेः । २ घ. अर्था । ३ ख. नानार्थं । ४क.ग. 'जकम् । ना' । ङ. च. ° जकत्ववि । ५ क. - ग. च. 'वृत्तिः । ना° । ६ ख. °सेन त ं । ७ घ. 'रकप' । ८ क. ग. च. विष्वग्ज्यो° । ९ ङ. च. त्पर्यव्या'। १० क.गङ. च. 'त्तिरास्तामित्युप' । ११ घ. 'याग्राह्या ।