________________
१२४
सर्वदर्शनसंग्रहेउपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत् । (३० ४।४२३) इत्यादिना । नापि तत्त्वज्ञानचिख्यापयिषानन्तर्यमथशब्दार्थः । तस्य संभवेऽपि श्रोतृप्रतिपत्तिप्रवृत्त्योरनपयोगेनानभिधेयत्वात् । तवापि निःश्रेयसहेतुतया योगानुशासनं प्रमित न वा । आये तदभावेऽप्युपादेयत्वं भवेत् । द्वितीये तद्भावेऽपि हेयत्वं स्यात् । प्रमितं चास्य निःश्रेयसनिदानत्वम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति (का० २। १२) इति श्रुतेः। समा. धावचला बुद्धिस्तदा योगमवाप्स्यास (भ० गी० २।५३) इति स्मृतेश्च.। अत एव शिष्यप्रश्नतपश्चरणरसायनायुपयोगानन्तर्य पराकृतम् । अथातो ब्रह्मजिज्ञासा (ब्र०सू० १ । १ । १) इत्यत्र तु ब्रह्मजिज्ञासाया अनधिकार्यत्वेनाधिकारार्थत्वं परित्यज्य साधनचतुष्टयसंपत्तिविशिष्टाधिकारिसमर्पणाय शमदमादिवाक्यविहिताच्छमादेरानन्तर्यमथशब्दार्थ इति शंकराचार्यैर्निरटङ्कि।
अथ मा नाम भूदानन्तर्यार्थोऽथशब्दः । मङ्गलार्थः किं न स्यात् । न स्यात् । मङ्गलस्य वाक्यार्थे समन्वयाभावात् । अगर्हिताभीष्टादाप्तिमङ्गलम् । अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टः । योगानुशासनस्य च सुखदुःखनिवृत्त्योरन्यतरत्वाभावान मङ्गलता । तथा च योगानुशासनं मङ्गलमिति न संपनीपद्यते । मृदङ्गध्वनेरिवाथशब्दश्रवणस्य कार्यतया मङ्गलस्य वाच्यत्वलक्ष्यत्वयोरसंभवाच्च । यथाऽऽर्थिकार्थो वाक्यार्थे न निविशते तथा कार्यमपि न निविशेत । अपदार्थत्वाविशेपात् । पदार्थ एव हि वाक्यार्थे समन्वीयते । अन्यथा शब्दप्रमाणकानां शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत इति मुद्राभङ्गः कृतो भवेत् । ननु प्रारिप्सितप्रबन्धपरिसमाप्तिपरिपन्थिप्रत्यूहव्यूहम. शमनाय शिष्टाचारपरिपालनाय च शास्त्रारम्भे मङ्गलाचरणमनुष्ठेयम् । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, आयुष्मत्पुरुषकाणि वीरपुरुषकाणि च भवन्ति ( पा० म० भा० पृ० ७४० ) इत्यभियुक्तोक्तेः । भवति च मङ्गलार्थोऽथशब्दः
ओंकारश्चाथशब्दश्च द्वावेतो ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥
- १ क. ग.-च. कार्यार्थ । २ क. त् । स्या । ३ ङ. संपद्यते । ४ ख. क्यार्थो नि । ५ कग. ङ. च. र्थे नि । ६ क. ख. घ. °पि । अ° । ७ क. ग.-च. पूर्येति ।