________________
पातञ्जलदर्शनम् ।
१२३
1
णामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपततीति । भोक्तृशक्तिरिति चिच्छक्तिरुच्यते । सा चाऽऽत्मैव । परिणामिन्यर्थे बुद्धितत्त्वे प्रतिसंक्रान्तेव प्रतिबिम्बि तेव तद्द्वृत्तिमनुपततीति बुद्धौं प्रतिविम्विता सा चिच्छक्तिर्बुद्धिच्छायापत्त्या बुद्धिवृत्यनुकारवतीति भावः । तथा शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रतिभासत इति । इत्थं तप्यमानस्य पुरुषस्याssदरनैरन्तर्य दीर्घकालानुबन्धियमनियमाद्यष्टाङ्ग योगानुष्ठानेन परमेश्वरप्रणिधानेन च सत्त्वपुरुषान्यताख्यातावनुपप्लवायां जातायामविद्यादयः पञ्च क्लेशांः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । ततश्च पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यमिति सिद्धम् ।
तत्राथ योगानुशासनम् ( पा० यो० सू० १ । १ ) इति प्रथमसूत्रेण प्रेक्षा. वत्प्रवृत्यङ्गं विषयप्रयोजन संबन्धाधिकारिरूपमनुबन्धचतुष्टयं प्रतिपाद्यते ।
अथ
अत्रायशब्दोऽधिकारार्थः स्वीक्रियते । अथशब्दस्यानेकार्थत्वे संभवति करेंमारम्भार्थत्वपक्षे पक्षपातः संभवेत् । अथशब्दस्य मङ्गलाद्यनेकार्थत्वं नामलिङ्गानुशासनेनानुशिष्टम् - मङ्गलानन्तरारम्भप्रश्नकात्स्म्र्येष्वथो ( अमर० ३ | ३ |२४६ ) इति । अत्र प्रश्नकार्ययोर संभवेऽप्यानन्तर्य मङ्गलपूर्वप्रकृतापेक्षारम्भलक्षणानां चतुर्णामर्थानां संभवादारम्भार्थत्वानुपपत्तिरिति चेन्मैवं मंस्थाः । विकल्पासहत्वात् । आनन्तर्यमथशब्दार्थ इति पक्षे यतः कुनचिदानन्तर्य पूर्ववृत्तशमांद्यसाधारणात्कारणादानन्तर्यं वा । न प्रथमः । न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । ( भ० गी० ३ । ५ ) इति न्यायेन सर्वो अस्तुरवश्यं किंचित्कृत्वा किंचित्करोत्येवेति तस्याभिधानमन्तरेणापि प्राप्ततया तदर्थाथशब्दप्रयोगवैयर्थ्यप्रसक्तेः । न चरमः । शमाद्यनन्तरं योगस्य प्रवृत्तावपि तस्यानुशासनप्रवृत्त्यनुबन्धत्वेनोपात्ततया शब्दतः प्राधान्याभावात्। न च शब्दतः प्रधानभूतस्यानुशासनस्य शमाद्यानन्तर्यमथशब्दार्थः किं न स्यादिति वदितव्यम् | अनुशासनमिति हि शास्त्रमाह । अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलसहितो योगो येन तदनुशासनमिति व्युत्पत्तेः । अन शासनस्य च तत्त्वज्ञानचिख्यापयिषानन्तरभावित्वेन शमदमाद्यानन्तर्यनियमाभावात् । जिज्ञासाज्ञानयोस्तु शमाद्यानन्तर्यमान्नायते - तस्माच्छन्तो दान्त
१ ङ. -च. 'न्ते च त' । २ ग तद्वति । ३ ङ-च. न्ते च प्र° । ४ ङ. - च. 'ते' । ५ क. प्रलयं । ६ च. °यं बीजम' । ७ घ. 'षस्य नै । ८ घ च ° न्यथाख्या । ९ घ. ॰त्यङ्गवि॰ । १० ख. ‘धमधिकारार्थत्वप' । ११ क. - ङ. जन्तुः किं° ।