________________
पातञ्जलदर्शनम् ।
१२७ तदेतद्वार्तम् । जीवपरयोः संयोगे कारणस्यान्यतरकर्मादेरसंभवात् । अजसंयोगस्य कणभक्षाक्षचरणादिभिः प्रतिक्षेपाच्च । मीमांसकमतानुसारेण तदङ्गीकारेऽपि नित्यसिद्धस्य तस्य साध्यत्वाभावेन शास्त्रवैफल्यापत्तेश्च । धातूनामनेकार्थत्वेन युजेः समाध्यर्थत्वोपपत्तेश्च । तदुक्तम्- .
_ निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः ।
अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ।। इति । अत एव केचन युजि समाधावपि पठन्ति युज समाधाविति। नापि याज्ञवल्क्यवचनव्याकोपः । तत्रस्थस्यापि योगशब्दस्य समाध्यर्थत्वात् ।
समाधिः समतावस्था जीवात्मपरमात्मनोः ।
ब्रह्मण्येव स्थितियों सा समाधिः प्रत्यगात्मनः ॥ इति तेनैवोक्तत्वाच्च । तदुक्तं भगवतां व्यासेन-योगः समाधिः ( योगभा० पृ० २।१.) इति । । नन्वेवमष्टाङ्गायोगे चरमस्याङ्गस्य समाधित्वमुक्तं पतञ्जलिना-यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमधियोऽष्टाङ्गानि योगस्ये ( पात० यो० सू० २ । २९) इति न चाङ्गन्येवाङ्गतो गन्तुमुत्सहते । उपकार्योपकारकभावस्य दर्शपूर्णमासमयाजादौ भिन्नायतनत्वेनात्यन्तभेदात् । अतः समाधिराप न योगशब्दार्थो युज्यत इति चेत्तन्न युज्यते । व्युत्पत्तिमात्राभिधित्सया तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ( पात० यो० सू० ३।३ ) इति । निरूपितचरमाङ्गवाचकेन समाधिशब्देनाङ्गिनो योगस्याभेदविवक्षया व्यपदेशोपपत्तेः । न च व्युत्पत्तिबलादेव सर्वत्र शब्दः प्रवर्तते । तथात्वे गच्छतीति गौरिति व्युत्पत्तस्तिष्ठन्गौर्न स्यात् । गच्छन्देवदत्तश्च गौः स्यात् । प्रवृत्तिनिमित्तं च प्रागुक्तमेव चित्तवृत्तिनिरोध इति । तदुक्तं योगश्चित्तवृत्तिनिरोधः (पात यो० सू० १।२) इति ।
ननु वृत्तीनां निरोधश्चेद्योगोऽभिमतस्तासां ज्ञानत्वेनाऽऽत्माश्रयतया तन्निरोधोऽपि प्रध्वंसपदवेदनीयस्तदाश्रयो भवेत् । प्रागभावप्रध्वंसयोः प्रतियोगिसमानाश्रयत्वनियमात् । ततश्च
उपयन्नपयन्धर्मो विकरोति हि धर्मिणम् । इति न्यायेनाऽऽत्मनः कौटस्थ्यं विहन्यतेति चेत्तदपि न घटते । निरोधप्र
१ घ. °तदात° । २ क. ग. युजिस । ३ क.-ग. ङ. च. °ति । यद्येव । ४ ख. °पि यो । ५ ख. र्भासस्व । ६ घ. °पितं च । ७ ख. वक्षाया। 4 ख. घ. निवर्तेतेति । ९ घ. ते नामनि ।