________________
[८]. प्रथमस्तु हनूमान्स्याद्वितीयो भीम एव च ।
पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः ॥ इति । — अनेन च महाभारततात्पर्यनिर्णयनामा ग्रन्थो विरचिंतः । तद्ग्रन्थसमाप्त्यवसरे चायं श्लोकों दृश्यतेमध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे । इति ।
वायोर्देवस्य यत्तृतीयं रूपं मध्वाख्यं तेनामुना मध्वाचार्येण केशवार्पणबुद्ध्याऽयं महामास्ततात्पर्यनिर्णयाख्यो ग्रन्थः कृत इति तदर्थः । अस्य मतं द्वैतवादः । द्विधा इतं द्वीतम् । तस्य भावो द्वैतम् । भेद इति यावत् । स च भेदः पञ्चविधः । जीवेश्वरभेदो जडेश्वर. भेदो जीवजडभेदो जीवानां मिथो भेदो जडानां मिथो भेदश्चेति । तदिदं भेदपञ्चक सत्यमनादि च । यदि च सादि स्यात्तर्हि नाशमाप्नुयात् । न च कदापि नाशमुपैति । तथा यदि चेदं भेदपञ्चकमसत्यं स्यातर्हि तस्य भ्रान्तिकल्पितत्वं स्वीकार्य स्यात् । न चेदं भ्रान्तिकल्पितमिति मन्तव्यम् । कल्पितस्य निवृत्त्यवश्यंभावात् । नैव चेदं निवतते । तस्मात्सत्योऽनादिश्चायं भेदप्रपञ्चः । एवं च द्वैतं न विद्यत इति यन्मतं तदज्ञानिनां मतमिति बोद्धव्यम् । श्रुतिरप्यतार्थे प्रमाणम् । तथा हि- सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः' इति । अस्यार्थः । आत्मा परमात्मा सत्यः । त्रिकालाबाधित इत्यर्थः । तथा जीवः सत्यः । तयोर्जीवेश्वरयोर्भेदश्चापि सत्यः । मैवारुवण्यः इत्यत्र मा एव आरुवण्य इति पदत्रयम् । तत्र मा इति निषेधार्थकमव्ययम् । एवेति निश्चयद्योतको निपातः । आरुभिन्यो भजनीय आरुवण्यः । एवं च परमात्मा दुष्टजनसेव्यो नैव भक्तीत्यर्थः । सत्यं भिदेति मवारुवण्य इति च त्रिवचनं भेदसत्यत्वदाढ्य प्रदर्शयितुम् । अस्वां श्रुतौं स्पष्टमेव भेदोऽभिहितः । नाभेदे सति भेददाढ्य सेव्यसेवकभावो वाऽअसा संगच्छते । अनुमा. नेनापि भेदोऽवसीयते । परमेश्वर पक्षीकृत्य तत्र जीवाभेदः साध्यते । जीव प्रतीश्वरस्य सेव्यत्वात् । यो यं प्रति सेव्यो भवति स तस्माद्भिन्नः । यथा भृत्याद्रानेति । अत्र भृत्यः सेवको राजा च सेव्यः । तस्मात्सेवकात्सेव्यो राजा भिन्नो दृ इति । अयमा शयः । प्रभूतं धनं मे स्याद्दारिद्रयं लेशतोऽपि मा भूदिति प्रार्थयमानाः पुरुषाः राज्ञो गुणोत्कर्षः, कीर्तयेयुश्चेत्प्रीतो राजा तेषामभिलषितं पूरयेत् । परंतु यदि ते सर्वाङ्गीणं. स्वद्राव्यपदमेव-देहीत्यभिकाङ्क्षयुस्तर्हि नेषदपीष्टलाभो भवेत् प्रत्युत क्रोधोत्पावनेनानापाति: स्यात् । तदुक्तम्
घातयन्ति हि राजानो राजाऽहमितिवादिनः । ददत्यखिलमिष्टं च स्वगुणोत्कर्षवादिनाम् ॥ इति ।