________________
101
तंत्र प्रथमं दुःखापरपर्यायं विज्ञानवेदनासंज्ञासंस्काररूपभेदात्पञ्चविधम् । इयमेव पञ्चस्कन्धीत्युच्यते । दुःखकारणं स्थिरत्वादिभ्रान्तिः समुदायः । दुःखतत्कारणैतदुभयनिवृत्त्युपायः सर्व क्षणिकमितिभावनारूयो मार्गः । सर्वनैरात्म्य वासनारूपो निरोधः । स एव मोक्ष इत्यभिधीयते । पञ्चस्कन्धानां लक्षणं भावनाचतुष्टयमित्येवमादिविस्तरो मूलतोऽवगन्तव्यः । प्रत्यक्षमनुमानं चेतिप्रमाणद्वयवादिनश्चैते ।
अर्हन्तं परमेश्वरं मन्यमाना आईतास्तेषां दर्शनमार्हतदर्शनम् । अत्र जीवाजीवो पुण्यपापे आश्रवसंवरौ बन्धनिर्जरामोक्षाश्चेति नव तत्त्वानि । एतन्मते घटपटादयः सन्तीति न निश्चेतुं शक्यते नापि न सन्तीतिकृत्वा सर्वे पदार्था भावाभावात्मकाः । सम्यं - ग्दर्शनसम्यग्ज्ञानसम्यक्चारित्रैश्च मोक्षः सिध्यति । स च देहस्वरूपावरणापगमे जीवस्य सततोर्ध्वगमनम् । जीवादिनवसंख्याकानां तत्त्वानां सम्यग्दर्शनादित्रयाणां च लक्षणानि मूल एवं स्पष्टानीति विस्तरंभिया नोच्यन्ते । चार्वाकप्रभृत्यार्हतपर्यन्ताः पटू, वेदविरोधित्वान्नास्तिका इत्युच्यन्ते । वेदविरोधित्वमेव नास्तिकत्वमित्यर्थः । इति षण्नास्तिक दर्शनस्वरूप संक्षेपः ।
अथाऽऽस्तिकदर्शनानि । तत्र रामानुजाचार्यमते मुख्यतस्तत्त्वत्रयम् । चिदचिदीश्वरमेदात् । तत्र चिज्जीवो भोक्ता । अचिज्जडवर्गो भोग्यम् । चिज्जडयोरन्तर्यामी संस्तान्नग्रामकश्चेश्वरः । स हि सविशेषः सगुणश्च । अयं हीश्वरश्चिज्जडौं व्याप्नोतीत्यात्मशब्दे • नोच्यते । यो यद्व्याप्नोति स तस्याऽऽत्मा । तच्चास्य शरीरमिति चिज्जडो परमात्मनः शरीरम् । तत्रापि जीवः परमात्मनः शरीरं भूत्वा जडस्याऽऽत्मा भवति । एतत्पदार्थत्रितयं परमार्थतः परस्परस्माद्भिन्नं सत्संबद्धं च भवति । अतोऽयं परमात्मा सजातीयविजातीयस्वगतैतद्भेदत्रय सहित एवेति रामानुजाचार्या मन्यन्ते । भेदेऽपि शरीरविशिष्टस्यैकत्वाद्विशिष्टाद्वैतवादमाश्रयन्ते । मायावादमसहमानाश्च विवर्तवादं प्रतिक्षिपन्ति । पारणामवादं स्वीकुर्वन्तश्च सत्ख्यातिं समर्थयन्ते । एतेषां मते जीवन्मुक्तिर्नास्ति । मोक्षेऽपि जीवब्रह्मणोर्भेद एव । याथातथ्येन परमात्मस्वरूपावबोधपूर्वकतत्कैर्यमेव मोक्ष इति बोध्यम् ।
1
: अथ पूर्णप्रज्ञ दर्शनस्वरूपं निरूप्यते । पूर्णा आत्मतत्त्वप्रतिपादकशास्त्रे प्रज्ञा मतियस्य स पूर्णप्रज्ञः । मध्वाचार्य इत्यर्थः । तेन प्रवर्तितं दर्शनं पूर्णप्रज्ञदर्शनम् । अत एतद्दर्शनं मध्वदर्शनमित्यप्युच्यते । अस्यैव मध्यममन्दिर इति आनन्दतीर्थ इति चापरं नाम । अस्य पूर्णप्रज्ञाचार्यस्य जन्म शाके खखभूभूमिते ( ११००) वर्षे कर्णाटकदेशे रजतपीठाख्ये (उडपी ) ग्रामे वेदवेद्यां मातारं मध्यगेहाख्यात्पितुः सकाशादाविरभूत् । एतस्य विद्याध्यापक गुरुरच्युतप्रेक्ष्याचार्य: । अयं हि पूर्णप्रज्ञाचार्थो वायोस्तृतीयोऽवतार इति मन्यन्ते तदनुयायिनः । तदुक्तम्
२