________________
[3]
6
महः सहस्वाम्यद्भावनमपि महतामप्रीतिकरं भवति । विमुतं तैः साकं स्वाद पाककमि पर्थः । एवं च जीवेश्वरयोरभेदः सर्वथा दुर्घटः । नश्च ब्रह्म वेद महौव भवतीतिश्रुतिबलाज्जीवेश्वरयोरभेदः द: शक्यशङ्क इति वाच्यम् । संपूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत् । इत्वित्प्रशंसापरत्वादभेदश्रुतेः । नहि ब्राह्मणपूजया शूद्रो ब्राह्मणजातितां लभते किंतु ब्राह्मणवत्प्रशंसनीयो भवतीत्यर्थः । तत्त्वमसीति महावाक्यमपि भेदप्रतिपादकमेव । तस्य त्वं तत्त्वमिति षष्ठीसमासमङ्गीकृत्य तस्येश्वरस्य त्वं दासोऽसीत् । अथवा स आत्मा तस्त्वमसि श्वेतकेतो ' इत्युद्दालकस्य स्वपुत्रं श्वेतकेतुं प्रत्युपदेशपरे वाक्ये आत्मा अतत् त्वम् इति पदच्छेदः । अतदित्यत्र च नञर्थो मेदः । तथा च यः स्वातन्त्र्यादिगुणोपेतः स एव परमात्मा । त्वं तु असत् तस्मादास्मनो भिन्नः परतन्त्रो जीवोऽसीत्यर्थात् । एवं च जीवेश्वरयोः सेव्य सेवक भाषात्तयोर्भेदः सिद्धः । सेवा व नामकरण भजनभेदात्रिविधा । तत्राङ्कनं नाम शङ्खचकादिनारायणाला मुद्रावारणम् । तदपि ' अतसतनूर्न तदामो अद्भुते ' इति तैत्तियोगविषय मुद्रा धारणं मुख्यम् । योऽतप्ततनूरत एवाऽऽमः स वष्णुपर्व नाश्नुत इति तदर्थं मन्यन्ते मध्वानुयायिनः । तथा चोक्तं ब्रह्माण्डपुराणे -
कृत्वा धातुमयीं मुद्रां तापयित्वा स्वकां तनुम् । चक्रादिचिह्नितां भूप धारयेद्वैष्णवो नरः ॥ इति ।
1
पुत्रादीनां केशवादिनाम्ना व्यवहारो नामकरणमुच्यते । तेन च निरन्तरं नारायणस्मरणं भवति । भजनं तु कायिकवाचिकमानसिकभेदेन दशविधम् । तत्र सत्यं हितं प्रियं स्वाध्यायश्चेति चतुर्विधं वाचिकम्। दानं परित्राणं परिरक्षणं चेति त्रिविधं कायिकम् । दया स्पृहा श्रद्धा चेति त्रिविधं मानसिकम् । सर्वस्य भजनस्य विष्णुप्रसादसंपादनं प्रयोजनम् । जीवोऽणुपरिमाणः । न मध्यमपरिमाणो नापि विभुः । I स च मोक्षावस्थायामपि परमेश्वरस्य दास एव । अपौरुषेयो वेदो नित्यश्च । तस्य च स्वतः प्रामाण्यमित्यादि मध्वाचार्या मन्यन्ते । प्रत्यक्षमनुमानं शब्दश्चेति प्रमाणत्रयवादिनचैत । एतेषां मते जगत्कर्तृत्वादिरहितं दुःखामिश्रितं परिपूर्ण सुखमेव मोक्षः । सच विष्णुप्रसादादेव लभ्यः । विष्णुप्रसादश्ध तद्गुणोत्कर्षज्ञानादेव भवति मामेदज्ञानात् । तदुक्तम् ——--
1
तस्मिन्मने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निःसंशयं मुक्तिफलं प्रयान्ति ॥
इति मध्वदर्शनसंक्षेपः ।