________________
[१०] - नकुलीशपाशुपतदर्शने पशुपतिना महेश्वरेण जीवानां पाशनिरासकत्वेन कार्यकारणयोगविधिदुःखान्तरूपं तत्त्वपञ्चकं प्रतिपादितम् । पशुपतिशब्दार्थश्चैवं व्याख्यातोऽभियुक्तैः--
ब्रह्माद्याः स्तम्बपर्यन्ताः पशवः परिकीर्तिताः ।
तेषां हि नायको यस्माच्छिवः पशुपतिः स्मृतः ॥ इति । अत्र जगतीतलवर्तिचेतनाचेतननिखिलपदार्थजातं कार्यशब्देनोच्यते । कारणशब्देनेश्वरः । स च स्वतन्त्रः । जपध्यानादिकं योगशब्देनाभिधीयते । त्रिषवणं भस्मस्नानादिकं व्रतं विधिरुच्यते । दुःखनिरासपूर्वकमीश्वरभावो दुःखान्तशब्देनोक्तः । स एव परमपुरुषार्थो मोक्ष इति ।
शैवदर्शने पाशविमोक्षणार्थ षट् तत्त्वानि पतिविद्याविद्यापशुपाशकारणाख्यान्युपदिष्टानि । तत्र पतिः शिवः । विद्या तत्त्वज्ञानम् । अविद्या मिथ्याज्ञानम् । पाशो मलकर्ममायारोधशक्त्याख्यश्चतुर्विधः । पशुविः । पाशनिवृत्तौ कारणं जपध्यानचर्यादिकमिति । तदुक्तम्
पतिविद्ये तथाऽविद्या पशुः पाशश्च कारणम् ।
तन्निवृत्ताविति प्रोक्ताः पदार्थाः षट् समासतः ॥ इति । एतेषां तत्त्वानां सामीचीन्येन ज्ञानात्पाशविमोचने संजाते शिवत्वप्राप्तिरूपो मोक्षः सिंध्यतीति शैवानां मतम् ।
मोक्षप्राप्तौ प्रत्यभिज्ञैव मुख्यं साधनमिति मन्यमाना माहेश्वरास्त्वेवं प्रतिपादयन्ति । पूर्णस्वतन्त्र ईश्वरो जगन्निर्माणकरणविषये न किमपि कर्मादिकं साधनमपेक्षते । किंतु स्वेच्छयैव सर्व निर्मिमीते । जीवाः परस्परं भिन्ना अपि न परमेश्वरा दमर्हन्ति । जीवेश्वरयोश्चैतन्यस्वभावाविशेषात् । परमेश्वरे जीवतादात्म्यस्य स्वानुभवसिद्धत्वाञ्च । अतो जीवैस्तत्तादात्म्यसंपत्त्यर्थं प्रत्यभिज्ञैवाऽऽश्रयणीया । प्रत्यभिज्ञा च अहमीश्वर एव न तद्भिन्न इत्येतादृशः साक्षात्कारः । तादृशेन केवलेन साक्षात्कारेणैवाभ्युदयो मोक्षश्च संपद्यते । न तदर्थं प्राणायामादेरपेक्षा । नापि कायशोषणस्य भस्मस्नानादेपपरिचर्यादेश्चापेक्षेति । यद्यपीश्वरवज्जीवात्माऽपि चैतन्यस्वरूपेणैव प्रकाशते तथाऽपि मायावशादंशेनैव प्रकाशते । परिपूर्णचैतन्यस्वरूपेण प्रकाशनार्थं तु प्रत्यभिज्ञाऽऽवश्यकीति पूर्णात्मतालाभ एव मोक्ष इति प्रत्यभिज्ञादर्शनानुसारिणां मतम् ।।
संप्रति रसेश्वरदर्शनस्वरूपं संक्षेपतो वित्रियते । पारदादिपदवाच्यो यो रमस्तद्रूप ईश्वरो रसेश्वरः । सोऽयं रसेश्वरः सेव्यमानः शरीरदायसंपादनद्वारा मुक्तेहेतुरिति ये