________________
[११]
माहेश्वरा
मम्यन्ते तेऽप्युपचाराद्रसेश्वरशब्देनाभिधीयन्ते । तैरते रसेश्वरपदवाच्यैः प्रवर्तितं दर्शनं रसेश्वरदर्शनमित्युच्यते । एतेऽपि न परमेश्वराज्जीवानां पार्थक्यं सहन्ते । - किंतु चैतन्यस्वरूपाविशेषादीश्वरस्वरूपभूता एव जीवात्मान इत्यवगच्छन्ति । मोक्षो हि पारदरससेवनेन शरीरस्थैर्य संपादनाज्जीवन्मुक्तिरेवेत्येषां मतम् । जीवतः सत एव या मुक्तिः सा जीवन्मुक्तिरित्यर्थः । अयमाशयः - मुक्तिर्नाम मूलाज्ञाननिवृत्तिपूर्वकस्वस्वरूपयाथात्म्यावाप्तिः । सा च ज्ञानैकसाध्या । तमेव विदित्वेति श्रुतेः । ज्ञानं चाऽऽत्मतत्त्वI विषयकमेव । तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम् । इति स्मृतेः । तच्च ज्ञानं तदभ्यासातिशयात् । अभ्यासातिशयश्च शरीरस्थैर्ये सत्येव । तदुक्तं भगवद्गोविन्दपादाचार्यै:
इति धनशरीरभोगान्मत्वाऽनित्यान्सदैव यतनीयम् । मुक्तौ सा च ज्ञानात्तच्चाम्यासात्स च स्थिरे देहे || इति ।
शरीरस्थैर्ये च पारदादिपदबोध्यस्य रसस्य सेवनात् । रसस्य पारदत्वं च संसारप-रपारप्रापणहेतुत्वेन । तदुक्तम् —
संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः । इति । पारदो गदितो यस्मात्परार्थं साधकोत्तमैः । इति च ।
यस्मात्साधकोत्तमैरयं परार्थं परो मोक्षस्तदर्थं मोक्षसाधनत्वेन गदितस्तस्मादसौ पारदः स्मृत इति शेषः । पारदस्य मोक्षार्थत्वं तु न साक्षात् किंतु मुक्तिप्रयोजकज्ञानसंपादकात्मतत्त्वाभ्याससाधनशरीरदाद्यसंपादनद्वारैवेति तदाशयः । तथा च जीवन्मुक्ति समीहमानेन पुरुषधौरेयेणाऽऽदौ पारदरससेवनेन शरीरस्थायित्वं संपादनीयम् । संपादिते च शरीरस्थैर्ये क्रमेण आत्मतत्त्वाम्यासातिशयान्मिथ्याज्ञाननिवृत्तौ जायमानायां या मुक्तिः सा जीवत एव मुक्तिर्भवतीति तात्पर्यम् ।
ननु अन्यैर्देर्शनकारैः श्रवणमननादिप्रकारान्तरेणैव जीवन्मुक्तिरुक्ता न त्वदुक्तप्रका - रेणेति कथमियं त्वदभिमता जीवन्मुक्तिर्विश्वसनीया भवेत् । अत एव तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये ।
षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने । करामलकवत्साऽपि प्रत्यक्षा नोपलभ्यते ॥
इति श्रुतिस्मृत्योर्देहपातानन्तरं मुक्तिः प्रदर्शिता । किं च निष्पद्यमानमिदं शरीरं हि षडूभिः काशैर्निष्पद्यत इति श्रुतिस्मृत्यादिषु प्रसिद्धम् । तत्र त्वगसृङ्क्षसरूपास्त्रयः कोशा मातुः शरीरादनुवर्तन्ते । मेदोस्थिमज्जारूपाश्च त्रयः कोशाः पितुः सकाशात्र