________________
[१२]
-: म्यन्ते । तदेतैः षभिः कोशैर्घटमानं शरीरं विनश्वरतया प्रत्यक्षतो दृश्यते । तथा च जीवतः एव मुक्तिरिति कथंकारं संजाघटीति । इति चेदुच्यते । पाट्कौशिकस्य देहस्यास्थिरस्वमस्तु नामः । तथाऽपि पारदाभ्रकपदाभिलप्यमाना या हरगौरीसृष्टिस्तत्संयोगजनितस्य शरीरस्य नित्यत्वमेव । हरसृष्टिः पारदः । गौरीसृष्टिस्त्वभ्रकः । तदुक्तं रसार्णवे
अभ्रकस्तव बीजं बीजिं तु मम तु पारदः । इति ।
शिवगौरीसंवादोऽयम् । अत एव चेश्वरशररिसंभूतत्वेन पारदो रसो रसेश्वर इत्युच्यते । तादृशस्य रसेश्वरस्य सेवनेन तत्संयोगजन्यस्य नित्यशरीरस्य प्राप्तौ सत्यां षट्कौशिकस्यास्थिरस्यापि देहस्य न परित्यागो भवति । प्रत्युत हरगौरीसृष्टिजशरीरसंबन्धेन तत्र दिव्यत्वं दाढ्यै च संपद्यते । यथा पारद ( परिस) संबन्धेन लोहमपि सुवर्णं भवति तद्वत् । तदुक्तं रसहृदये—
८
+
ये चात्यक्तशरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः । मुक्तास्ते रससिद्धा मन्त्रगणः किंकरो येषाम् ॥ इति ।
एवं च पारदरससंबन्धेन पाटकौशिकस्य शरीरस्य लोहस्येव सुवर्णत्वे दिव्यत्वे स्थिरत्वे च संपाद्यमाने जीवत एव मुक्तिरित्युक्तिः सामीचीन्येन संगच्छते । तथा च दर्शनकारैः प्रदर्शिता जीवन्मुक्तिः करामलकवत्प्रत्यक्षा पारदपदाभिधेयरसेश्वरसेवनेन भवतीति जीवन्मुक्ति मनङ्गीकुर्वाणा रामानुजप्रभृतयोऽज्ञानिन एवेति मन्तव्यम् । अत एवं विद्यारण्यैस्तिक दर्शनप्रदर्शनसमये सर्वतो जघन्यत्वेनाऽऽदौ रामानुजदर्शनं निर्दिष्टम् । तदपेक्षया चैतदर्शनस्य श्रेष्ठयाद्रामानुजदर्शनोत्तरं दर्शनचतुष्टयव्यवधानेन रसेश्वरदर्शनं निर्दिष्टमिति मन्ये । इति रसेश्वरदर्शनस्वरूप संक्षेपः ।
औलक्यदर्शनमेव वैशेषिकदर्शनं कण ददर्शनमिति चोच्यते । अक्षपाददर्शनं च नैयायिकदर्शनमित्यभिधीयते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनाख्यपञ्चावयवं वाक्यं न्यायः । तं विदन्ति ते नैयायिकास्तेषां दर्शनामित्यर्थः । दर्शनद्वयेऽपि तत्त्वज्ञानान्निःश्रेयसाधिगम इत्युक्तम् । निःश्रेयसं मोक्षः । तस्याधिगमः प्राप्तिरित्यर्थः । मोक्षश्चाऽऽत्यन्तिकी दुःखनिवृत्तिः । सा च तत्त्वज्ञानादनन्तरमेव न जायते । किंतु तत्त्वज्ञानेन दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानां मध्ये उत्तरोत्तरस्य नाशे सति तत्पूर्व भाविदोषादीनां नाशात्क्रमेणापवर्गः सिध्यति । तदुक्तम् — दुःखजम्मप्रवृत्तिदोष मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति । मोक्षसाघनीभूतज्ञानविषयामि तत्वानि च प्रमाणप्रमेयसंशयेत्यादीनि गौतमेन षोडशोक्तानि ।
1