________________
[૨]
कणादेन तु सप्तैवोक्तानि । तेषु सप्तस्वेव गौतमोक्तानां षोडशपदार्थानां यथायथयन्तर्भावः सिध्यति । आदृतश्चायमन्तर्भावो नैयायिकैः । अनुमेव विशेषमनुलक्ष्य षोडशपदार्थवादिनो नैयायिकाः सप्त पदार्थवादिनश्च वैशेषिका इति व्यवहारः । अतो वैशेषिकसंमतान्येव सप्त तत्त्वानि सावान्तरभेदानि निरूप्यन्ते - द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः । पृथिव्यप्तेजोवाय्वाकाशकालदिमात्ममनांसीति नव द्रव्याणि । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्स्वसंयोगविभाग परत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः । चलनात्मकं पञ्चविधं कर्म । परमपरं चेति द्विविधं सामान्यम् । नित्यद्रव्यवृत्तयो विशेषास्त्वनम्ता एव । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति चत्वारोऽभावा इति । एतेषां लक्षणानि अनुमानव्याप्त्यादिलक्षणानि चेति सर्वं मूल एव स्पष्टम् ।
जैमिनिमुनिना प्रणीतं दर्शनं जैमिनिदर्शनम् । तदनुवर्तमाना जैमिनीयाः । ते च ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिकं हि यद्वचनत्वेन प्रमाणपदवीमवगाहेतैतादृशः सर्वज्ञत्वादिविशेषणविशिष्टः कोऽपीश्वरो नास्ति । मानुषदेहवत्त्वाविशेषेण विप्रलम्भक त्वादिदोषावश्यंभावात् । यद्यपि ब्रह्मविष्णुमहेश्वराः प्रेष्ठा देवाः सन्ति दृश्यते च तेष्यतिशायिनी संपत् । यदाह कश्चित्
अथापि वेदहेतुत्वाद्ब्रह्मविष्णुमहेश्वराः ।
कामं भवन्तु सैश्वर्याः सार्वश्यं पुरुषेषु किम् ॥ इति ।
तथाऽपि न तेषु सार्वज्ञ्यं संभावयितुमलम् । भ्रान्तेः पुरुषधर्मत्वाद्रागद्वेषादिएक निग्रहानुग्रहग्रस्तत्वाच्च । न च प्रत्यक्षं सर्वज्ञसाधकं भवेदिति वाच्यम् ।
संबद्धं वर्तमानं च गृह्यते चक्षुरादिना ।
इत्यभियुक्तवचनात् । तस्मात्सर्वज्ञस्य प्रामाणिकपुरुषस्याभावादेवापौरुषेयो वेदोऽतों भ्रान्त्यादिदोषानास्पदत्वात्स एव सर्वज्ञो भगवान् । तत एव च चक्षुरिन्द्रियागोचरयथावस्थितपदार्थधर्मादिस्वरूपपरिचयो याथातथ्येन भवति । वेदोदितो यागादिधर्म एव चस्वनुष्ठितोऽपूर्वोत्पादनद्वारा स्वर्गादि फलं जनयति । न तत्रान्यस्य कस्यचित्सािंख्यनैयायिकादिपरिकल्पितस्येश्वरस्यापेक्षा । एते च मीमांसका द्विविधाः । अभिहितावयवादिनो भाट्टाः । अन्विताभिधानवादिनः प्राभाकराः । द्विविधानामध्येतेषां मते शब्दा नित्याः । वेदानां धर्मे स्वतः सिद्धं प्रामाण्यं स्वर्गादेः प्राप्तिश्च मोक्ष इति ।
"""
सांप्रतं सांख्यदर्शनस्वरूपं निरूप्यते । ते च सांख्या द्विविधाः । सेश्वरा निरीश्वराश्च । ये तु जीवातिरिक्तं षड्विंशमीश्वरं मन्यदेत ते सेश्वराः । अन्ये निरीश्वराः । त एत उभयेऽपि निराहुः - प्रकृत्युपरमे पुरुषस्य स्वस्वरूपेणावस्थानं मोक्षः । स
I