SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ [२] ननु यद्येवमन्यत्र मुद्रितोऽयं निबन्धग्रन्थस्तर्हि किमर्थमयं पुनर्मुद्रणे प्रयास इतिचेत्प्रथमावृत्तौ समाप्तायां पुनस्तदावृत्तिः प्रकाशनीयेति सामान्यत एतत्संस्थासमयस्तदनुसारे. ति ब्रूमः । किंच यथैतत्सटीकं पुस्तकं महत्तथा तन्मूल्यमपि महद्दशरूपकपरिमितमिति कृत्वा न सर्वेषां सौलाम्येन प्राप्यम् । अपि चाधीषिषूणां छात्राणां न टीका तावत्युपयोगिनी भवति । किं त्वध्यापयितुरेव स्थलविशेषे कंचिद्विशेषं द्रष्टुमिति महन्महत एवोपकुर्यात् । एतदनुसंधायैव चेयमावृत्तिः पूर्वापेक्षया वर्धिताऽपि न तदनुसारेण तन्मूल्यं वर्षितं किंतु पूर्ववद्रूपकद्वयमेवावस्थापितम् । तस्माद्यथैव च सुस्नापितं स्वलंकृतं निर्मलं सुन्दरं च बालकं न कस्यापि जिघृक्षार्भारमावहति प्रत्युत' स्वकीयकोमलगात्रसंस्पर्शात्सुखयतीति सर्वजनीनम् । तथेदमपि पुस्तकं सुसंस्कृतं सुपरिशुद्धं स्वल्पमूल्यं विषयसुन्दरं चाध्ययनाध्यापनार्थ स्वहस्तधारणे न कस्यापि भारभूतं भवेदपि च रञ्जयेदेव वाचकमानसमिति पश्यामीत्यलं विस्तरेण । पुण्यपत्तने ) बी० ए० इत्युपपदधारी फाल्गुनशुक्ल द्वितीयायां आपटे-इत्युपाह-गणेशात्मजो गुरुवासरे शके १८४९ ) विनायकशर्मा।
SR No.002416
Book TitleSarva Darshan Sangraha
Original Sutra AuthorN/A
AuthorVinayak Ganesh
PublisherAnand Ashram
Publication Year1928
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy