________________
उपोद्घातः।
... अयि भोः सर्वदर्शनसंग्रहप्रणयिन आनन्दाश्रमस्थसंस्कृतग्रन्थावलीप्रकाशितग्रन्थग्राहकमाननीयमहाशयाः. ननु लभतां तत्रभवतां भवतामासेचनकतां चिराय तन्वानस्यास्य हृद्यस्य च सर्वदर्शनसंग्रहनाम्नो ग्रन्थस्याऽऽत्मदर्शनाय वासो भवत्सु पदम् । नह्ययं षण्नास्तिकदर्शनषडास्तिकदर्शनमध्वभाष्यश्रीभाष्यादिप्रौढनिबन्धैः साकं पास्पर्धांति भवतां मतिः । - अयं हि निबन्धस्तत्तदर्शनकाराणां निबन्धौघानुदधरिव पयःपूरानालोड्य भगवता माधवेनेव माधावाचार्येण पीयूषकलश इवोद्धृतः सर्वदर्शनसंग्रहनाम्ना प्रसेधितश्च ।
दर्शनपदार्थस्त्वेतादृशस्थले दृश्यते ज्ञायत आत्माऽनेनेति व्युत्पत्त्या ज्ञानसामान्यार्थकाद्दशिधातोः करणल्युटा निष्पन्नदर्शनशब्देन चेतनवस्तुविषयविचारप्रवणमागमात्मकं शास्त्रमुच्यते ।
दर्शनगतसंख्याविषये तैर्थकानां विविधानि मतान्युपलभ्यन्ते । केचित्खलु पूर्वोत्तरमीमांसाद्वयं सेश्वरनिरीश्वरसांख्यद्वयं सप्तपदार्थषोडशपर्दाथाभिधायिन्यायद्वयं चेति षड्दर्शनान्याहुः । तदुक्तम्
कपिलस्य कणादस्य गौतमस्य पतञ्जलेः ।
व्यासस्य जैमिनेश्चापि शास्त्राण्याहुः षडेव हि ॥ इति । __ अपरे तु मीमांसकसांख्यनैयायिकबौद्ध जैनचार्वाकाणां दर्शनानि षड्दर्शनी प्राहुः । अन्ये तु पुनः सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकेति भेदभिन्नबौद्धेन जैनलौकायति. काम्यां च सहितमाद्यदर्शनषट्कं द्वादशदर्शनीति संगिरन्ते । अनेन तु निबन्धकाsतोऽप्यधिकानीति मिलित्वा षोडश दर्शनानि संगृहीतानि । अत एव च सर्वदर्शनसंग्रहनाम्ना प्रथयत्यमुम् । दर्शनानां नामानि मूल एव स्फुटानीति न पुनरिहोल्लिख्यन्ते ।
तानि च दर्शनानि द्विविधानि । अभेदग्राहीणि भेदग्राहीण च तत्र शांकरदर्शनमभेदवादीति सुप्रसिद्धो डिण्डिमः सर्वत्रेति न तत्र विचारलेशावकाशोऽपि । पाणिनिदर्शनमप्यमेदमेव वदतीति तत्रस्थग्रन्थादवगम्यते । तथाहि-अभ्युपगताद्वितीयत्वनिर्वाहाय वाच्यवाचकयोरविभागः प्रदर्शितः, इत्युपक्रम्य
वाच्या सा सर्वशब्दानां शब्दाच्च न पृथक्ततः । अपृथक्त्वेऽपि संबन्धस्तयोर्जीवात्मनोरिव ॥