________________
सर्वदर्शनसंग्रहे-- एतेषां यथासंभवं लक्षणतोऽसकरेणाभिधानं विभागः । स तु विहित एव । शास्त्रान्तरेभ्योऽभीषां गुणातिशयेन कथनं विशेषः । तथाहि-अन्यत्रं दुःखनिवृत्तिरेव दुःखान्तः । इह तु पारमैश्वर्यप्राप्तिश्च । अन्यत्राभूत्वा भावि कार्यम् । इह तु नित्यंपश्चादि । अन्यत्र सापेक्षं कारणम् । इह तु निरपेक्षो भगवानेव । अन्यत्र कैवल्यादिफलको योगः । इह तु पारमैश्वर्यदुःखान्तफलकः। अन्यत्र पुनरावृत्तिरूपस्वर्गादिफलको विधिः । इह पुनरपुनरावृत्तिरूपसामीप्यादिफलकः । .. ननु महदेतदिन्द्रजालं यन्निरपेक्षः परमेश्वरः कारणमिति । तथात्वे कर्मवै. फल्यं सर्वकार्याणां समसमयसमुत्पादश्चेति दोषद्वयं प्रादुःष्यात् । मैवं मन्येथाः। व्यधिकरणत्वात् । यदि निरपेक्षस्य भगवतः कारणत्वं स्यात्तर्हि कर्मणो वैफल्ये किमायांतम् । प्रयोजनाभाव इति चेत्कस्य प्रयोजनाभावः कर्मवैफल्ये कारणम् । किं कर्मिणः किंवा भगवतः । नाऽऽद्यः । ईश्वरेच्छानुगृहीतस्य कर्मणः सफलत्वोपपत्तेः । तदैननुगृहीतस्य ययातिप्रभृतिकर्मवत्कदाचिन्निष्फलत्वसंभबाच्च । न चैतावता कर्मस्वप्रवृत्तिः । कर्षकादिवदुपपत्तेः । ईश्वरेच्छायत्तत्वाञ्च पशूनां प्रवृत्तेः । नापि द्वितीयः । परमेश्वरस्य पर्याप्तकामत्वेन कर्मसाध्यायोजनापेक्षाया अभावात् । यदुक्तं समसमयसमुत्पाद इति तदप्ययुक्तम् । अचिन्त्यशक्तिकस्य परमेश्वरस्येच्छानुविधायिन्योऽव्याहतक्रियाशक्त्या कार्यकारित्वाभ्युपगमात् । तदुक्तं संप्रदायविद्भिः
कर्मादिनिरपेक्षस्तु स्वेच्छाचारी यतो ह्ययम् ।
तत: कारणतः शास्त्रे सर्वकारणकारणम् ॥ इति । ननु दर्शनान्तरेऽपीश्वरज्ञानान्मोक्षो लभ्यत एवेति कुतोऽस्य विशेष इति चेन्मैवं वादीः। विकल्पानुपपत्तेः। किमीश्वरविषयज्ञानमात्रं निर्वाणकारणं किंवा साक्षात्कारः, अथवा यथावत्तत्त्वनिश्चयः । नाऽऽद्यः । शास्त्रमन्तरेणापि प्राकृतजनवदेवानामधिपो महादेव इति ज्ञानोत्पत्तिमात्रेण मोक्ष सिद्धौ शास्त्राभ्यास.
१क. ख. घ. तोऽभिधानमसंकरेण वि' । २ घ. 'हितः । शा। क.-ग. ङ. हितशा । ३. ख. ग. ङ. च. न्तरोक्तपदार्थे गु । ४ च येनाभिधानं । ५ ख. ५ गुणनि । ६ क. ख. ग. करणम् । च. कारकम् । ७ क.-इ. °दि । ६० । ८ के. ख. ग. घ. यमु । ९ ख. वैकल्ये । १० ख. वैकल्ये । ११ ख. 'श्वरानु । १२ च. °दनु। १३ क. लत्वाभाषा । ग. घ. लत्व. भावा । १४ ख. नाकाङ्क्षाया। १५ ख. न्याऽह । १६ च. °च्छाकारी यथोचितम् । ततः कर्ये स्मृतः शा। १७ क. नातः। १८ च. "रकका । १९ क. °णकामता ग. । णता मता।