________________
शैवदर्शनम् ।
वैफल्यप्रसङ्गात् । नापि द्वितीयः । अनेकमलपचयोपचितानां पिशितलोचनाना पशूनां परमेश्वरसाक्षात्कारानुपपत्तेः । तृतीयेऽस्मन्मतापातः । पाशुपतशास्त्रमन्तरेण यथावत्तत्त्वनिश्चयानुपपत्तेः । तदुक्तमाचार्य:
ज्ञानमात्रे वृथा शस्त्रं साक्षादृष्टिस्तु दुर्लभा ।
पश्चार्थीदन्यतो नास्ति यथावत्तत्त्वनिश्चयः ।। इति । तस्मात्पुरुषार्थकामैः पुरुषधौरेयः पश्चार्थप्रतिपादनपरं पाशुपतशास्त्रमाश्रय
गीर्यम् ।
इति श्रीमरसायणमाधवीये सर्वदर्शनसंग्रहे नकुलीशपाशुपतदर्शनम् ॥
अथ शैवदर्शनम् ॥ ७ ॥
तमिम परमेश्वरः कर्मादिनिरपेक्षः कारणमिति पक्ष वैषम्यनघण्यदोषदूषितस्वात्मतिक्षिपन्तः केचन माहेश्वराः शैवागमसिद्धान्ततत्त्वं यथावदीक्षमाणाः कर्मादिसापेक्षः परमेश्वरः कारणमिति पक्षं कक्षीकुर्वाणाः पक्षान्तरमुपक्षिपन्ति पति शुपाशभेदाघ्रयः पदार्था इति । तदुक्तं तन्त्रतत्त्वज्ञैः
त्रिपदार्थ चतुष्पादं महातन्त्रं जगद्गुरुः। . . . सूत्रेणकेन संक्षिप्य प्राह विस्तरतः पुनः ॥ इति । . . . भस्यार्थः- उक्तास्त्रयः पदार्था यस्मिन्सन्ति तत्रिपदार्थ विद्याक्रियायोगचर्यारूपाश्चत्वारः पादा यस्मिंस्तच्चतुश्चरणं महातन्त्रमिति । तत्र पशूनामस्वतन्त्रत्वात्पा. शानामचैतन्यात्तद्विलक्षणस्य पत्युः प्रथममुद्देशः । चेतनत्वसाधात्पशूनां तदा. नन्तर्यम् । अवशिष्टानां पाशानामन्ते विनिवेश इति मनियमः । दीक्षायाः परमपुरुषार्थहेतुत्वात्तस्याश्च पशुपाशेश्वरस्वरूपनिर्णयोपायभूतेन मन्त्रमन्त्रेश्वरादिमाहात्म्यनिश्चायकेन ज्ञानेन विना निष्पादयितुमशक्यत्वात्तदवबोधस्य विद्यापादस्य प्राथम्यम् । अनेकविधसागन्दीक्षाविधिप्रदर्शकस्य क्रियापादस्य तदानन्तर्यम् । योगेन विना नाभिमतप्राप्तिरिति साङ्गयोगज्ञापकस्य योगपादस्य तदुत्तरत्वम् । विहिताचरणनिषिद्धवर्जन चर्या विना योगोऽपि न
१ ख. वैकल्य । २ घ. तानामपि पिशीत° । ३ क.-. 'त्रे यथाशा । ४ च. °यमिति रमणीयम् । ५ ग, शूनां स्व । ६ ग. अविशि । ७ ख. °न्ते नि । ८ क. ख. क्रमं नियमदी । प. क्रम नियमयन्दीक्षा । ९ च. त्रतन्त्रे । १० च. 'थम्यादने । ११ च. ति सांख्ययो । १२ च. योगेनापि ।