________________
सर्वदर्शनसंग्रहनिर्वहतीति तत्प्रतिपादकस्य चर्यापादस्य चरमत्वमिति विवेकः ।.. __तत्रं पतिपदार्थः शिवोऽभिमतः । मुक्तात्मनां विद्येश्वरादीनां च यद्यपि शिवत्वमस्ति तथाऽपि परमेश्वर पारतम्च्यात्स्वातन्त्र्यं नास्ति । ततश्च तनुकरणभुवनादीनां भावानां संनिवेशविशिष्टत्वेन कार्यत्वमवगम्यते । तेन च कार्यत्वेनैषां बुद्धिमत्पूर्वकत्वमनुमीयत इत्यनुमानवशात्परमेश्वरप्रसिद्धिरुपपद्यते ।
ननु देहस्यैव तावत्कार्यत्वमासिद्धम् । न हि कचित्केनचित्कदाचिदेहः क्रियमाणो दृष्टचरः । सत्यम् । तथाऽपि न केनचित्क्रियमाणत्वं देहस्य दृष्टमिति कर्तृदर्शनापह्नवो न युज्यते । तस्यानुमेयत्वेनाप्युपपत्तैः। तथाहि-देहादिकं कार्य भवितुमर्हति संनिवेशविशिष्टत्वाद्विनश्वरत्वाद्वा घटादिवत् । तेन च कार्य: स्वेन बुद्धिमत्पूर्वकत्वमनुमातुं सुकरमेव । विमतं सकर्तृकं कार्यत्वाद्घटवत् । यदुक्तसाधनं तदुक्तसाध्यं यथाऽर्थादि। न यदेवं न तदेवं यथाऽऽत्मादि । परमे. श्वरानुमानप्रामाण्यसाधनमन्यत्राकारीत्युपरम्यते । ..
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ।। इति न्यायेन प्राणिकृतकर्मापेक्षया परमेश्वरस्य कर्तृत्वोपपत्तेः । न च स्वातच्यविहतिरिति वाच्यम् । कारणापेक्षया. कर्तुः स्वातन्त्र्यविहतेरनुपलम्भात् । कोषाध्यक्षापेक्षस्य राज्ञः प्रसादादिना दानवत् । यथोक्तं सिद्धगुरुभिः
*स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता। ..
कर्तुः स्वातन्त्र्यमेतद्धि न कर्माचनपेक्षता ॥ इति । तथा च तत्तकौशयवशाद्भोगतत्साधनतदुपादानादिविशेषेज्ञः कर्ताऽनुमाना. दिसिद्ध इति सिद्धम् । तदिदमुक्तं तत्रभवद्भिहस्पतिभिः
इह भोग्यभोगसाधनतदुपादानादि यो विजानाति । . तमृते भवेन्नहींदं पुंस्काशयविपाकज्ञम् ।। इति । अन्यत्रापि
* घ. पु. टि.-अप्रयोज्यत्वमविवातकत्वम् ।
१ ख. द्धिपूर्व । २ क. ख. वो यु । ३ क.-इ. 'तेः । दे । ४ क. ख. °न का । ५ च. 'मत्कार्यत्वानुमानं सु । ६ ख. ग. 'मानं सु । घ. °माने सु°। ७ क.-. साधनं य । ८ घ. तोऽ. गच्छत्स्व । ९ च. वा दुःखमे । १० च. मन्तव्यम् । ११ ङ.-तथो । १२ क न कार्याद्यनपेक्षिता । १३ ख. °द्यनपेक्षया । १४ ख. सतिश । १५ क. ख. ग. प. पतः ।