SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ७२ . सर्वदर्शनसंग्रहेइति प्राईतिरशुचिर्मलः । स च ईष्टे स्वातन्त्र्येणेति ईशः । तदुक्तम् एको ह्यनेकशक्तिदृक्रिययोश्छादको मलः पुंसः । तुषतण्डुलवज्ज्ञेयस्ताम्राश्रितकालिकावद्वा ।। इति । बलं रोधशक्तिः । अस्याः शिवशक्तेः पाशाधिष्ठानेन पुरुषतिरोधायकत्वादुपचारेण पाशत्वम् । तदुक्तम् तासामहं वरा शक्तिः सर्वानुग्राहिका शिवा । धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥ इति । ' क्रियते फलार्थिभिरिति कर्म धर्माधर्मात्मकं बीजाकुरवत्मवाहरूपेणानादि । यथोक्तं श्रीमत्किरणे यथाऽनादिर्मलस्तस्य कर्माल्पकमनादिकम् । यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना ॥ इति । मात्यस्यां शक्त्यात्मना प्रलये सर्व जगत्सृष्टी व्यक्तिमायातीति माया । ययोक्तं श्रीमस्सौरभेये शक्तिरूपेण कार्याणि तल्लीनानि महाक्षये । विकृती व्यक्तिमार्योति सा कार्येण कलादिना ।। इति । यद्यप्यत्र बहु वत्त.व्यमस्ति तथाऽपि ग्रन्थभूयस्त्वभयादुपरम्यते । तदित्यं पतिपशुपक्षपदार्थास्त्रयः प्रदर्शिताः। . पतिविधे तथाऽविद्या पशुः पाशश्च कारणम् । तन्निवृत्ताविति प्रोक्ताः पदार्थाः षद् समासतः ॥ इत्यादिना प्रकारान्तरं वानरत्नावल्यादौ प्रसिद्धम् । सर्व तत एवावगन्तव्यमिति सर्व समञ्जसम् । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे शैवदर्शनम् ।। अथ प्रत्यभिज्ञादर्शनम् ॥ ८॥ अत्रापेक्षाविहीनानां जडानां कारणत्वं दुप्पतीत्यपरितुष्यन्तो मतान्तरमविष्यन्तः परमेश्वरेच्छावशादेव जगन्निर्माणं परिघुष्यन्तः स्वसंवेदनोपपत्त्याऽऽ. १ घ. 'वृत्तिर । २ क. ख. घ.-च योच्छाद । ३ च. 'म् । तस्मान्माहेश्वरी शक्तिः । ४ ख. घ. क्रियाफ । ५ घ. मात्म । ६ क. ख. मकर । ७ क.--. 'दिरसं सि । ८ च. 'त्यस्य श। ९ ख. घ. 'यान्ति सा । १० क ख ग. प्रादर्शिषत।
SR No.002416
Book TitleSarva Darshan Sangraha
Original Sutra AuthorN/A
AuthorVinayak Ganesh
PublisherAnand Ashram
Publication Year1928
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy