________________
प्रापयति । तदुक्तम्-
शैवदर्शनम् ।
शेषा भवन्ति सकलाः कला दियोगादहमुखे काले | शतमष्टादश तेपां कुरुते स्वयमेव मन्त्रेशान् ।। तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्च वीरेशः । श्रीकण्ठः शतरुद्राः शतमित्यष्टादशाभ्यधिकम् । इति ।
208
तत्परिपाकाधिक्यनिरोधेन शक्त्युपसंहारेण दीक्षाकरणेन मोक्षप्रदो भवत्याचार्यमूर्तिमास्थाय परमेश्वरः । तदयुक्तम्
परिपकमला नेतानुत्सादने हेतु शक्तिपातेन ।
योजयति परे तत्त्वे स दीक्षयाऽऽचार्यमूर्तिस्थः ॥ इति । श्रीमन्मृगेन्द्रेऽपि —
पूर्व व्यत्यासितस्याणोः पाशजालमपोहति ॥ इति । व्याकृतं च नारायणकण्ठेन । तत्सर्वं तत एवावधार्यम् । अस्माभिस्तु विस्तरभिया न प्रस्तूयते । अपक्क कलुषान्बद्धानणून् भोगभाजो विधत्ते परमेश्वरः कर्मवशात् । तदप्युक्तम्—
बद्धाशे पानपरा विनियुङ्क्ते भोगभुक्तये पुंसः । तत्कर्मणामनुगमादित्येवं कीर्तिताः पशवः । इति ।
अथ पापदार्थः कथयते । पाशचतुर्विधः । मलकर्ममायाध शक्तिभेदात् । ननु -
शैत्रागमेषु मुख्यं पतिपशुपाशा इति क्रमाच्चितयम् ।
तत्र पतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाशाः ॥
इति पाश: पञ्चविधः कथ्यते । तत्कथं चतुर्विध इति गण्यते । उच्यते— विन्दोमयात्मनः शिवतत्वपदवेदनीयस्य शिवपदप्राप्तिलक्षणपरममुक्त्यपेक्षया पाशत्वेऽपि तद्योगस्य विद्येश्वरादिपदमाप्तिहेतुत्वेनापरमुक्तित्वात्पाशत्वेनानुपादानमित्यविरोधः । अत एवोक्तं तत्वप्रकाशे पाशाश्चतुर्विधाः स्युरिति । श्रीमन्मृगेन्द्रेऽपि --
प्रावृतीशौ बैलं कर्म मायाकार्यं चतुर्विधम् ।
जलं समासेन धर्मा नाचैव कीर्तिताः ॥ इति । अस्वार्थ: - प्रावृगोति प्रकर्षेणाऽऽच्छादयत्यात्मनः स्वाभाविक्यों दृक्रिये
१ घ. शतरुद्रः । २ङ 'नश' । ३ क. ग. घ. कीर्त्यते । ४ग, पदाप्रा । ५ का ख. 'तीशो ब' । च. 'ती शबले क° । ६ क. बले । ७ग. 'जालस' । ८ घ. र्तितम् ।