________________
७
सर्वदर्शनसंग्रहे-
मलयालेषु येषामपैकमकर्मणी व्रजन्त्येते । पर्यटक देहयुक्ता योनिषु निखिला कर्मवशात् ॥ इति ।
पुर्यष्टकमपि तत्रैव निर्दिष्टम् —
1
- स्यात्पर्यष्टकमन्तःकरणं धीकर्म करणाने । इति । विवृतं चाघोरशिवाचार्येण - पुर्वष्टकं नाम प्रतिपुरुषं नियतः सर्गादारभ्य कल्पान्तं मोक्षान्तं af स्थितः पृथिव्यादिकलापर्यन्तस्त्रिशतस्वात्मकः सूक्ष्मो देहः । तथा चोक्तं तत्त्वसंग्रहे
वसुधाद्यस्तस्वगणः प्रतिपुंनियतः कलान्तोऽयम् । पर्यटति कर्मवशाद्भुवनज देहेष्वयं च सर्वेषु ।। इति ।
तथा
चायमर्थः समपद्यत - अन्तःकरणशब्देन मनोबुद्ध यहंकारचित्तवाचिनान्यान्यपि पुंसो भोगक्रियायामन्तरङ्गाणि कलाकालनियतिविद्यार। गप्रकृतिगुणाख्यानि सप्त तत्त्वान्युपलक्ष्यन्ते । धीकर्मशब्देन ज्ञेयानि पञ्च भूतानि तस्कर णानि च तन्मात्राणि वित्रक्ष्यन्ते । करणशब्देन ज्ञानकर्मेन्द्रियदशकं संगृह्यते । ननु श्रीमत्कालोत्तरे
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम् । बुद्धिर्माः पूर्वमुदाहृतम् ॥
१५.
इति श्रूयते । तत्कथमन्यथा कथ्यते । अद्धा । अत एव च तत्रभवता रामकाण्डेन तत्सूत्रं त्रिंशत्तत्वपरतया व्याख्यायीत्यलमतिप्रपञ्श्चन । तथाऽपि कथं पुनरस्य पुर्यष्टकत्वम् । भूततन्मात्र बुद्धीन्द्रियकर्मेन्द्रियान्तःकरणसंज्ञः पञ्चभिर्वर्गैस्तत्कारणेन प्रधानेन कलादिपञ्चकात्मना वर्गेण चाऽऽरब्धत्वादित्यविरोधः । तत्र पुर्यष्टकयुतान्विशिष्टपुण्यसंपन्नान् कांश्चिदनुगृह्य भुवनपतिमंत्र महेश्वरोऽनन्तः प्रयच्छति । तदुक्तम्-
कश्विदनुगृह्य वितरति भुवनपतित्वं महेश्वरस्तेषाम् ।। इति । सकलोऽपि द्विविधः । पक्क कलुषा पक्कक लुषभेदात् । तत्राऽऽद्यान्परमेश्वरस्तस्परिपाकपरिपाट्या तदनुगुणशक्तिपातेन मण्डल्याद्यष्टादशोत्तरशतं मन्त्रेश्वरपदं
१ घ. “पक्वे मलकर्मणी । ईशप्रेरणविवशा जन्ममृती पुनर्ब्रजन्त्यन्ये । पुरौं। २ क. ख. ग. मणि पुनर्व्रजन्त्यन्ये । पु° । ३ घ. रणधीकर्मकार । ४ च क्लान्तं । ५ क. ग. घ. वाऽवस्थि' । ६ घ. 'वा' । ७ क ख ग घ कलनि । ८ क. 'यतवि' । ९ च लभ्यन्ते । १० ख. घ. 'कार' | ११ क. ख. ग. घ. ॰न्ते | कार । १२ ख. संग्राह्य' । १३ घ. रूपरसौ गरौं । १४ क. ख. ग. घ. ङ. रामकण्ठेन । च. रामकर्णेन १५ घ. सत्तवप । चत्र त्रिंशत्त ववाचकत । १६ घ. – च. ° कर १७ क. ख. ग. ध. ञ्चक कञ्चुका' । १८ क. ग. 'मन्त्रम । १९ ग. काश्चि । २० ख. 'महेश्वर ं । २१ क. ग. 'शतम ं ।