________________
शैवदर्शनम् । पशुविविधः । विज्ञानाकलप्रलयाकलसकलभेदात् । तत्र प्रथमो विज्ञानयोगसंन्यास गेन वा कर्मक्षये सति कर्मक्षयार्थस्य कलादिभोगबन्धस्याभावास्केव. लैमलमात्रयुक्तो विज्ञानाकल इति व्यपदिश्यते । द्वितीयस्तु प्रलयेर्ने कलादेशपसंहारान्मलकर्मयुक्तः प्रलयाकल इति व्यवहियते । तृतीयस्तु मलमायाकर्मात्मकबन्धत्रयसहितः सकल इति xसंलप्यते ।
सत्र प्रथमो द्विप्रकारो भवति समाप्तकलुषासमाप्तकलुषभेदात् । तत्राऽऽया. कालुष्यपरिपाकवतः पुरुषधौरेयानधिकारयोग्याननुगृह्यानन्तादिविधेश्वराष्टपदं पापयति । तद्विद्येश्वराष्टकं निर्दिष्टं बहुदैवत्ये. अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः ।
एकनेत्रस्तथैकरुद्रश्चापि त्रिमूर्तिकः ॥
श्रीकण्ठश्च शिखण्डी च प्रोक्ता विद्येश्वरा इमे ॥ इति। अन्यान्सप्तकोटिसंख्यातान्मन्त्राननुग्रहकरणान्विधत्ते । तदुक्तं तत्वप्रकाशे
पशवस्त्रिविधाः प्रोक्ता विज्ञानप्रलयकेवलौ सकलः। मलयुक्तस्तत्राऽऽयो मलकर्मयुतो द्वितीयः स्यात् ॥ .... मलमायाकर्मयुतः सकलस्तेषु द्विधा भवेदाद्यः। . आद्यः समाप्तकलुषोऽसमाप्तकलुषो द्वितीयः स्यात् ॥ आद्याननुगृह्य शित्रो विद्येशत्वे नियोजयत्यष्टौ । .
मन्त्रांश्च करोत्यपरास्ते चोक्ताः कोटयः सप्त ॥ इति । सोमशंभुनाऽप्यभिहितम्
विज्ञानाकलनामैको द्वितीयः प्रलयाकलः। . तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः ॥
तत्राऽऽद्यो मलमात्रेण युक्तोऽन्यो मलकर्मभिः ।
कलादिभूमिपर्यन्ततत्त्वैस्तु सकलो युतः ।। इति । प्रलयाकलोऽपि विविधः-पकपाशद्वयस्तद्विलक्षणश्च । तत्र प्रथमो मोक्षं पामोति । द्वितीयस्तु पुर्यष्टकयुतः कर्मवशान्नानाविधजन्मभाग्भवति । तदप्युक्तं तत्त्वप्रकाशे
x घ. पु. टि.-सम्यगुच्यते ।
१च. 'सैर्योगे । २ ग. वा कर्मक्षया । ३ क. ख. ग. "लमा । ४ क. ख. ग. °न काला। ५ ख. 'प्य त° । ६ ख. 'ज्ञानाप्र । ७ घ. 'त्रान्यो म । ८ क. ख. ग. युक्तो द्वि' । ९ स. युतस। १.क.-.च. ज्ञानक ।