________________
सर्वदर्शनसंग्रहेकृत्यपञ्चकं च प्रपश्चितं भोजराजेन
पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः ।
। तदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य ।। इति । एतच्च कृत्यपञ्चकं शुद्धाध्वविषये साक्षाच्छिवकर्तृकं कृच्छ्राध्वविषये त्वनन्तादिद्वारेणेति विवेकः । तदुक्तं श्रीमत्करणे
शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽहिते प्रभोः ॥ इति । एवं च शिवशब्देन शिवत्वयोगिनां मन्त्रमन्त्रेश्वरमहेश्वरमुक्तात्मशिवानां सवा. चंकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह पतिपदार्थे संग्रहः कृत इति बोद्धव्यम् । तदित्थं पतिपदार्थों निरूपितः।
संप्रति पशुपदार्थो निरूप्यते-अनणुः क्षेत्रज्ञादिपदवेदनीयो जीवात्मा पशुः । न च चार्वाकादिवदेहादिरूपः । नान्यदृष्टं स्मरत्यन्य इति न्यायेन प्रतिसं. धानानुपपत्तेः । नापि नैयायिकादिवत्प्रकाश्यः । अनवस्थाप्रसङ्गात् । तदुक्तम्... आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः ।
पर आत्मा तदानीं स्यात्स परो यदि दृश्यते ॥ इति । ' न च जैनघदव्यापकः । नापि बौद्धवक्षणिकः । देशकालाभ्यामनवछिन्नत्वात् । तदप्युक्तम्
अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः ।
तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यता ॥ इति । नाप्यद्वैतवादिनामिवैकः । भोगप्रतिनियमस्य पुरुषबहुत्वज्ञापकस्य संभवात् । नापि सांख्यानामिवाकर्ता । पाशजालापोहने नित्यनिरतिशय हक्कक्रियारूपचैतन्यात्मकशिवत्वश्रवणात् । तदुक्तं श्रीमन्मृगेन्द्रः-पाशान्ते शिवताश्रुतेः ॥ इति ।
चैतन्यं दृक्रियारूपं तदस्त्यात्मनि सर्वदा । ___सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ इति । तत्त्वप्रकाशेऽपि
मुक्तात्मानोऽपि शिवाः कित्वेते यत्प्रसादतो मुक्ताः । सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः ॥ इति ।
१ च. कृष्णाध्व। २ च. मन्त्रे । ३ च. धकेन । ४ घ. दार्थसं । ५ क. ख. ग. घ. अणुक्षे । ६ क. ख. घ. तिबन्धानु। ७ ख. 'यिकमतव । ८ ग. नामेवा । ९ ग. घ. च,
गेन्द्रे ।