SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सर्वदर्शनसंग्रहेमतीतानागतकाले तत्कालवर्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययो विपर्ययः । तस्माद्विपक्षे क्रमयोगपद्यव्यावृत्त्या व्यापकानुपलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्गतद्विपर्ययवलाद्गहीतान्वयव्याप्तिकं च सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम् । तदुक्तं ज्ञानश्रिया यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा अमी ___ सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा * न सा। नाप्येकैव विधाऽन्यथा परकृतेनापि क्रियादिर्भवेद x द्वेधाऽपि क्षणभङ्गसंगतिरतः साध्ये च विश्राम्यति ॥ इति । न च कणभक्षाक्षचरणादिपक्षकक्षीकारेण सत्तासामान्ययोगित्वमेव सत्त्व मिति मन्तव्यम् । सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात् । न च तत्र स्वरू. पसत्तानिवन्धनः सद्व्यवहारः । प्रयोजैकगौरवापत्तेः । अनुगतत्वाननुगतत्ववि. कल्पपराहतेश्च । सर्पपमहीधरादिषु विलक्षणेषु क्षणेष्वनुगतस्याऽऽकारस्य माणिषु सूत्रबद्भुतगणेषु गुणवच्चाप्रतिभासनाच्च । किंच सामान्यं सर्वगतं स्वाश्रयसर्वगतं वा । प्रथमे सर्ववस्तुसंकरप्रसङ्गः । अपसिद्धान्तापत्तिश्च । यतः प्रोक्तं प्रशस्तपादेन-स्वविषयसर्वगतमिति । किंच विद्यमाने घटे वर्तमान सामान्यमन्यत्र जायमानेन संवध्यमानं तस्मादागच्छत्संवध्यतेऽनागच्छद्वा । आधे द्रव्यत्वापत्तिः । द्वितीये संवन्धानुपपत्तिः । किंच विनष्टे घटे सामान्यमवतिष्ठते विनश्यति स्थानान्तरं गच्छति वा । प्रथमे निराधारत्वापत्तिः । द्वितीये नित्यत्व वाचोयुक्त ययुक्तिः । तृतीये द्रव्यत्वप्रसक्तिः । इत्यादिदूषणग्रहग्रस्तत्वात्सामा. न्यमप्रामाणिकम् । तदुक्तम्-- अन्यत्र वर्तमानस्य ततोऽन्यस्थानजन्मानि । तस्मादचलतः स्थानावृत्तिरित्यतियुक्तता ।। यत्रासौ वर्तते भावस्तेन संबध्यते न तु । तदेशिनं च व्यामोति किमप्येतन्महाद्भुतम् ।। न याति न च तत्राऽऽसीदस्ति पश्चान्न चांशवत् । जहाति पूर्व नाऽऽभारमहो व्यसनसंततिः ॥ इति । * स्थिरेषु स्थिरा इति । घ. पु. टिप्पण्याम् । x नानात्वेन स्थिरत्व एकविधत्वेनास्थिरत्वेऽपि । इति घ. पु. टिप्पण्याम् । १ ग. ध. गस्तद्वयत्ययो वि । २ घ. मितिः । ३ क. 'जको गौ । ४ क. ग. घ. "तकणे । ५घ. स्तपदे । ६ क. ख. ग. घ. °णग्रस्त । क. प्राप्नोति ।
SR No.002416
Book TitleSarva Darshan Sangraha
Original Sutra AuthorN/A
AuthorVinayak Ganesh
PublisherAnand Ashram
Publication Year1928
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy