________________
"बौद्धदर्शनम् । अनुवृत्तप्रत्ययः किमालम्बन इति चेदङ्ग, अन्यापोहालम्बन एवेति संतोव्यमायुष्मतेत्यलमतिप्रसङ्गेन।
सर्वस्य संसारस्य दुःखात्मकत्वं सर्वतीर्थकरसंमतम् । अन्यथा तन्निविवृत्सूनां तेषां तनिवृत्त्युपाये प्रवृत्त्यनुपपत्तेः । तस्मात्सर्व दुःख दुःखमिति भावनीयम् । ननु किंवदिति पृष्टे दृष्टान्तः कथनीय इति चेन्मैवम् । स्वलक्षणानां क्षणानां क्षणिकतयों सालक्षण्याभावादेतेन सदृशमपरमिति वक्तुमशक्यत्वात् । ततः स्वलक्षणं स्वलक्षणमिति भावनीयम् । एवं शन्यं शून्य मित्यपि भावनीयम् । स्वमे जागरणे च न मया दृष्टमिदं रजतादीति विशिष्टनिषेधस्योपलम्भात् । यदि दृष्टं सत्तदा तद्विशिष्टस्य दर्शनस्येदंताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य रजतत्वादेस्तत्संबन्धस्य च समवायादेः सत्त्वं स्यात् । न चैतदिष्टं कस्यचिद्वादिनः । न चार्धजरतीयमुचितम् । न हि कुक्कुटया एको भागः पाकायापरो भागः प्रसवाय कल्यतामिति कल्प्यते । तस्मादध्यस्ताधिष्ठानतत्संबन्धदर्शनद्रष्टणां मध्य एकस्यानेकस्य वाऽसत्त्वे निषेधविषयत्वैन सर्वस्यासत्त्वं बलादापतेदिति भगवतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा इत्थमचीकथन्–भिक्षुपादप्रसारणन्यायेन क्षण. भङ्गाद्यभिधानमुखेन स्थायित्वानुकूलवेदनीयत्वानुगतत्वसर्वसत्यत्वभ्रमव्यावर्तनेन सर्वशून्यतायामेव पर्यवसानम् । अतस्तत्त्वं सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव । तथाहि-यदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैयर्थ्यम् । असत्त्वं स्वभाव इति पक्षे प्राचीन एव दोषः प्रादुःष्यात् । यथोक्तम्
न सतः कारणापेक्षा व्योमादेरिव युज्यते ।
कार्यस्यासंभवी हेतुः खपुष्पादेरिवासतः ॥ इति । विरोधादितरौ पक्षावनुपपन्नौ । तदुक्तं भगवता लङ्कवतारे- ..
बुद्धों विविध्यमानानां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च दार्शिताः ।। इति । इदं वस्तुबलीयातं यद्दन्ति विपश्चितः ।
यथा यथार्थाश्चिन्त्यन्ते विशीयन्ते तथा तथा ॥ इति च । __ १ ख ..-च. विवर्तयिषूणां ते । २ घ. दुःखमि । ३ क. ख. ग. घ. किं तदि° । ४ ग. 'ष्टान्तैः क । ५ ख. ग. घ. °या स्वाल । ६ ग ड.-च. 'वात् । नैते । ७ ख. ड.-च. न्यमपि। ८ च. सर्वास । ९ क.-ग. ङ. च. तस। १० च. °मस्याऽऽव । ११ क. ख. ग. : "तुष्कोणवि । घ. "तुष्कवि । १२ क.- सत्स्व । घ. सावं भा° । च. °सत्त्वं सहाय इ। १३ ग. तदुक्तम् । १४ घ. ङ. भवो हे । १५ च. वदल । १६ क. ख. ग. ताऽलङ्काराव । १७ क.°ध्द्यादिवाच्य । १८ च. °च्य द्रष्टव्यः स्व । १९ च.वो नैव । २० ख. घ. भिलयास्ते । ग. °भिलपास्ते। २१ च. लाधीतं । २२ क. ख. घ. दस्ति वि।