________________
सर्वदर्शनसंग्रहेन कचिदपि पक्षे व्यवतिष्ठत इत्यर्थः। दृष्टार्थव्यवहारश्च स्वमव्यवहारंवत्संवृत्या संगच्छते । अत एवोक्तम्
परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ।
कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पनाः ॥ इति । तदेवं भावनाचतुष्टयवशान्निखिलवासनानिवृत्तौ परनिर्वाणं शून्यरूपं सेत्स्यतीति वयं कृतार्था नास्माकमुपदेश्यं किंचिदस्तीति । शिष्यैस्तावद्योगश्वाऽऽचारश्चेति द्वयं करणीयम् । तत्राप्राप्तस्यार्थस्य प्राप्तये पर्यनुयोगो योगः। गुरूक्तस्यार्थः स्याङ्गीकरणमाचारः। गुरूक्तस्याङ्गीकरणादुत्तमाः पर्यनुयोगस्याकरणादधमाश्च । अतस्तेषां माध्यमिका इति प्रसिद्धिः।
गुरूक्तं भावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्याऽऽन्तरस्य शून्यत्वं चाङ्गीकृतं कथमिति पर्यनुयोगस्य करणात्केषांचिद्योगाचारप्रथा । एषा हि तेषां परिभाषा-स्वयंवेदनं तावदङ्गीकार्यम् । अन्यथा जगदान्ध्यं प्रेसज्येत । तत्कीर्तितं धर्मकीर्तिना
अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति । इति। . बाह्यं ग्राह्यं नोपपद्यत एव । विकल्पानुपपत्तेः । अर्थो ज्ञानग्रोह्यो भवन्नुत्पन्नो भवत्यनुत्पन्नो वा । न पूर्वः। उत्पन्नस्य स्थित्यभावात् । नापरः। अनुत्पन्नस्यासत्त्वात्। अथ मन्येथाः, अतीत एवार्थो ज्ञानग्राह्यस्तज्जनकत्वादिति । तदपि बालभाषितम् । वर्तमानतावभासविरोधात् । इन्द्रियादेरपि ज्ञानजनकत्वेन ग्राह्यत्वप्रसङ्गाच्च । किंच ग्राह्यः किं परमाणुरूपोऽर्थोऽवयविरूपो वा । न चरमः । कृत्स्नैकदेशविकल्पादिना तनिराकरणात् । न प्रथमः । अतीन्द्रियत्वात् । षट्केन युगपद्योगस्य बाधकत्वाच्च । यथोक्तम्-- ___ *षट्केन युगपद्योगात्परमाणोः षडंशता।
तेपामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः ॥ इति । तस्मात्स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रका
... * मनःसहितज्ञानेन्द्रियेणेति घ. पु. टिप्पण्याम् ।
१च. हारोऽव्यवहारश्च स्व । २ क.ख. घ.-च. श्च न स्व । ३ घ. "वत् । बुद्धिकल्पितमात्रेण न सत्यविषयं विना दृष्टव्यवहारोऽपि सत्यविषयको न स्वप्नवत्संवृत्या संगच्छत इत्यर्थः । अ । ४ घ. °देतदेवं । ५ घ. परं नि । ६ क. ग. रुक्तं भा। ७ च. °र इति प्र । ८ च. स्वसंवे। ९ च. प्रसझेत् । १० क.--. "ह्यो भावादुत्प। ११ क. ख. ग. घ. रूपार्थो । च. "रूपोऽर्थः किंवाऽवयविरूपः । न ।