________________
बौद्धदर्शनम् । शिकाप्रकाशवदिति सिद्धम् । तदुक्तम्
नान्योऽनुभाव्यो बुद्धयाऽस्ति तस्या नानुभवोऽपरः।
ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥ इति । ग्राह्यग्राहकयोरभेदश्वानुमातव्यः । यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते यथा ज्ञानेनाऽऽत्मा । वैद्यन्ते तैश्च नीलादयः। भेदे हि सत्यधुनाऽनेनार्थस्य संब. न्धित्वं न स्यात् । तादात्म्यस्य नियमहेतोरभावात् । तदुत्पत्तेरनियामकत्वात् । यश्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमास द्वित्वावमास इव भ्रमः । अत्राप्यनादिरविच्छिन्नप्रवाहाँ भेदवासनैव निमित्तम् । यथोक्तम्
सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैदृश्येतेन्दाविवाद्वये ॥ इति । अविभागोऽपि बुद्धयात्मा विपर्यासितदर्शनैः।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति च । न च रसवीर्यविपाकादि समानांशामोदकोपार्जितमोदकानां स्यादिति घेदितव्यम् । वस्तुतो वेद्यवेदकाकारविधुराया अपि बुद्धय॑वहर्तृपरिज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराग्रुपहताक्षणां केशोण्डुकनाडीशीनभेददनाद्युपप्लववासनासामर्थ्याव्यवस्थोपपत्तेः पर्यनुयोगायोगात् । यथोक्तम्
अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥ तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ।
• यदा तदा न संचोद्या ग्राह्यग्राहकलक्षणा ॥ इति । तस्माद्बुद्धिरेवानादिवासनावशादनेकाकाराऽवभासत इति सिद्धम् । ततश्च मागुक्तभावनाप्रचयबलानिखिलवासनोच्छेदविगलितविविधविषयाकारोपप्लवविशुद्धविज्ञानोदयो महोदय इति ।
अन्ये तु मन्यन्ते । यथोक्तं बाह्य वस्तुजातं नास्तीति तदयुक्तम् । प्रमाणाभावात् । न च सहोपलम्भनियमः प्रमाणमिति वक्तव्यम् । वेद्यवेदकयोरभेद
१ क. ख. शिप्र । २ ग. प्रकाशिता । ३ क. ख. ग. घ. वेद्यते । ४ घ. संबन्धत्वं । ५ क. ग. यं प्राह । ६ च. त्वाभा । ७ क. हा वा । ख. °वाहे भे° । ग. °वाहभे । ८ घ. दृश्य इन्दोरिव द्व। ९ क. ग. °गो विबु । १० घ. 'मानं विद्यमानजडस्य चैतन्यात्मावभासनमित्याशा। ११ घ. कानामिदं स्या' । १२ च. पविप्लववत्त । १३ घ. वत्तायास्तिमि । १४ ग. घः केशेन्द्रना। च. केशोण्डकादिज्ञा। १५ड.-च. ज्ञानाभे । १६. च. वचना । १७ घ, ङ, गात् । १८घ, च्छेदो वि।