________________
सर्वदर्शनसंग्रहे-- साधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन संदिग्धविपक्षव्यावृत्तिकत्वात् । ननु भेदे सहोपलम्भानियमात्मकं साधनं न स्यादिति चेन्न । ज्ञानस्यान्तर्मुखतयां ज्ञयस्य बहिर्मुखतया च भेदेन प्रतिभासमानत्वात् । एकदेशत्वैककालत्वलक्ष. णसहत्वनियमासंभवाच्चें । नीलाद्यर्थस्य ज्ञानाकारत्वेऽहमिति प्रतिभासः स्यात् । न विदमिति प्रतिपत्तिः । प्रत्ययादव्यतिरेकात् । अयोच्यते ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति न च तत्राहमुल्लेख इति । तथोक्तम्
परिच्छेदान्तराद्योऽयं भागो बहिरिव स्थितः । ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः ।। इति । .
यदन्त यतत्त्वं तद्वहिर्वदवभासते ।। इति च । तदयुक्तम् । बाह्यर्थािभावे तद्व्युत्पत्तिरहिततया बहिर्वदित्युपमानोक्तरयुक्तेः । नहि व मित्रो वन्ध्यापुत्रवदवभासत इति प्रेक्षावानाचक्षीत । भेदप्रतिभासस्य भ्रान्तत्वेऽभेदप्रतिभासस्य प्रामाण्यं तत्प्रामाण्ये च भेदप्रतिभासस्य भ्रान्तत्व मिति परस्पराश्रयप्रसङ्गाच्च । अविसंवादानीलतादिकमेव संविदाना वाह्यमेवोपाददते जगत्युपेशन्ते चाऽऽन्तरमिति व्यवस्थादर्शनाच्च । एवं चायमभेदसाधको हेतुमियपायसीयन्यायवदाभासतां भजेत् । अतो बहिर्वदिति वदता बाह्य ग्राह्यमेवेति भावनीयमिति भवदीय एव बाणो भवन्तं प्रहरेत् ।
ननु ज्ञानाद्भिन्नकालस्यार्थस्य ग्राह्यत्वमनुपपन्नमिति चेत्तदनुपपन्नम् । इन्द्रियसंनिकृस्य विषयस्योत्पाचे ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाऽऽकारेण तस्यार्थस्यानुमेयतोपपत्तेः । अत एव पर्यनुयोगपरिहारौ समग्राहिपाताम्
भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यतां विदुः । हेतुत्वमेव च व्यक्तेज्ञोनाकारार्पणक्षमम् ।। इति ।
१ ग. लम्भात्म । २ ख. घ. याऽर्थस्य । ३ क. ख. ग. च. नतयैक । ४ घ. °च्च किंच नी । ५ च.पि भ्रा । ६ क. कारभ्रा । ७ ख. ह्यार्थभा । ८ ङ.-च. तदुत्प० । ९ ख. °सुपुत्रो । १० क. ख. ग. घ. °ण्ये भे। ११ घ. लत्वादि । १२ ख. दानो बा । १३ च. ते महत्यु । १४ ग. °क्षतेऽवान्त । १५ ख. ड.-च. 'न्तेऽवान्त । १६ क. ख. °यवाय । १७ च. °यसन्या । १८ क. ख. ग. घ. 'जेत । अ । १९ च. ह्यं बाह्य । २० च. °ति गणनीयनियमतो गणनीयमेव । २१. ख. र्थबाह्य । २२ ग. °ष्टवि। २३ च. ये स्वा । २४ ग. °व व्यक्तित्वं ज्ञाना । च. व युक्ति. ज्ञा ज्ञा।