________________
बौद्धदर्शनम् । तथा च यथा पुष्टया भोजनमनुमीयते यथा च भाषया देशो यथा का संभ्रमण स्नेहस्तथा ज्ञानाकारेण ज्ञेयम मेयम् । तदुक्तम्
अर्थेन घंटेंयत्येनां नहि मुक्त्वाऽर्थरूपताम् ।
__तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ।। इति ।। नहि वित्तिसत्तैव तद्वेदना युक्ता । तस्याः सर्वत्राविशेषात् । तां तु सारूप्यंमाविशत्सरूपयितुं घटयेदिति च । तथा बाह्यार्थसद्भावे प्रयोगः-ये यस्मिन्सत्यपि कादाचित्कास्ते सर्वे तदतिरिक्तसापेक्षाः । यथा-अविवक्षति अजिगमिषति माय वचनगमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसंतानसापेक्षाः । तथा च विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाऍल्लेखिन इति । तत्राऽऽलयविज्ञानं नामाहमास्पदं विज्ञानम् । नीलाघुल्लेखि च विज्ञानं प्रवृत्तिविज्ञानम् । यथोक्तम्--
. तत्स्यादालयविज्ञानं पद्भवेदहमास्पदम् ।
- तत्स्यात्प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ।। इति । तस्मादालयविज्ञानसंतानातिरिक्तः कादाचित्कप्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययकादाचित्कत्वात्कदाचिदुत्पाद इति वेदितव्यम् ।
विज्ञानवादिनये हि वासना नामैकसंतानवर्तिनामालयविज्ञानानां तत्तत्प्रतिविज्ञानजननशक्तिः । तस्याश्च स्वकार्योत्पादं प्रत्याभिमुख्यं परिपाकः । तस्य च प्रत्ययः कारणं स्वसंत्तानवर्तिपूर्वक्षणः कक्षी क्रियते । संतानान्तरनिबन्धनत्यानङ्गीकारात् । ततश्च प्रवृत्तिविज्ञानजनकालयविज्ञानवर्तिवासनापरिपाकं प्रति सर्वेऽप्यालयविज्ञानवर्तिनः क्षणाः समर्था एवेति वक्तव्यम् । न चेदेकोऽपि न समर्थः स्यात् । आलयविज्ञान संतानवर्तित्वाविशेषात् । सर्वे समर्था इति पक्षे कालक्षेपानुपपत्तिः । ततश्च कादाचित त्वनिर्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान्प्रतीत्योत्पद्यन्त इति चतुरेणानिच्छताऽप्यच्छमतिना स्वानुभवमनाच्छाद्य परिच्छेत्तव्यम् ।।
१ ख. यथा यथा । २ ख. ते तथा । ३ ख. °थाच ज्ञा। ४ घ. नुज्ञेय । ५ च. टधमेण नहि मुख्यार्थरू । ६ घ. °त् । तत्तत्सारूप्यमाविशती तत्तत्सरूपतां घट । ७ ख. विविक्षु । ८ क. रसत्तान । घ. °रसा । ९ ख. नीलोले । १० क. ग.-च. द्युल्लेखना इ° । ११ च. "ल्लेख च प्रवृत्तिविज्ञानं त° । १२ ग. ज्ञानासं । १३ च. नाप्र । १४ क. घ.-च. त्ययः का । १५ ख. °म् । दिव्यज्ञानवादिनं ये । १६ ख. लयं वि । १७ क. ग.-च. °त्तिज। १८ ख. च. कार्य प्र° । १९ घ. यः स्व. । २० ख. ग. त्वाङ्गी । २१ क.-ड. °त्तिज्ञानजननाल° । २२ च. 'नवृत्तिसंतानक्ष° । २३ ख. °को न। २४ ग. °नव । २५ क. ख. घ.च. कार्यक्षे । २६ च. कनि ।