________________
सर्वदर्शनसंग्रहेते चत्वारः प्रत्ययाः प्रसिद्धा आलम्बनसमनन्तरसहकार्यधिपतिरूपाः । तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभासरय चित्तस्य नीलादालम्बनप्रत्ययानी. लाकारता भवति । समनन्तरप्रत्ययात्प्राचीनज्ञानाद्बोधरूपता । सहकारिप्रत्ययादालोकोत्स्पष्टता । चक्षुषोऽधिपतिप्रत्ययाद्विषयग्रहणप्रतिनियमः । उँदितस्य ज्ञानस्य रसादिसाधारण्ये प्राप्त नियामकं चक्षुरधिपतिर्भवितुमर्हति । लोके नियामकस्याधिपतित्वोपलम्भात्। एवं चित्तचैत्तात्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि । सोऽयं चित्तचैत्तात्मकः स्कन्धः पञ्चविधो रूपविज्ञानवेदनासं. ज्ञासंस्कारसंज्ञकः । तत्र रूप्यन्त एभिर्विषया इति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः । आलयविज्ञानप्रवृत्तिविज्ञानप्रवाहो विज्ञान स्कन्धः । प्रागुक्तस्कन्धद्वयसंबन्धजन्यः सुखदुःखादिप्रत्ययप्रवाहो वेदनास्कन्धः । गौरित्यादिशब्दोल्लेखिसंवित्मवाहः संज्ञा. स्कन्धः । वेदनास्कन्धनिवन्धना रागद्वेषादयः क्लेशा उपक्लेशाश्च मदमानादयो. धर्माधर्मों च संस्कारस्कन्धः।
तदिदं सर्वं दुःखं दुःखायतनं दुःखसाधनं चेति भावयित्वा तनिरोधोपायं तत्त्वज्ञानं संपादयेत् । अत एवोक्तं दुःख समुदायनिरोधमार्गाश्चत्वार आर्यबुद्धस्याभिमतानि तत्त्वानि । तत्र दुःखं प्रसिद्धम् । समुदायो दुःखकारणम् । तद्विविधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धश्च । तत्र प्रत्ययोपनिवन्धनस्य संग्राहकं सूत्रम् - 'इदं प्रत्ययफलम् ' इति । इदं कार्य येऽन्ये हेतवः प्रत्ययन्ति गच्छन्ति तेषामयमानानां हेतूनां भावः प्रत्ययत्वं कारणसमवायः, तन्मात्रस्य फलं न चेतनस्य कस्यचिदिति सूत्रार्थः । यथा बीजहेतुरङ्कुरो धातूनां षण्णां समवायाज्जायते । तत्र पृथिवीधातरङ्कुरस्य काठिन्यं गन्धं च जनयति । अब्धातुः स्नेहं रसं च जनयति । तेजोधातू रूपमौज्यं च । वायुधातुः स्पर्शनं चलनं च। आकाशधातुरवकाशं शब्दं च । ऋतुधातुर्यथायोगं पृथिव्यादिकम् । हेतूपनिवधेनस्य संग्राहक सूत्रम्- उत्पादाद्वा तथा तानामनुत्पादाद्वा स्थितेषां धर्मा
१ क. ख. ग. घ. °लादिभा" । २ च. "लाद्याल° । ३ घ. "नाद्वाध । ४ क.-ङ. काचक्षु । ५ क.-टु. विदि । ६ क. ग.-च. रण्यप्रा । ७ क. ख. ग. घ. चैत्यात्म । ८ क.-. "नि । एवं चि । ९ ख. दसंज्ञानसंज्ञानसंस्का । १० घ. 'ज्ञानसं । ११ च. प्य ए° । १२ च. दिप्रत्ययोल्ले । १३ क.-ध.. च. खिसविज्ञानप्र । १४ ख. ज्ञानस्क । १५ ख. त्वा वृत्तिरोधापा । १६ क - ग. इ. च. "यस्य बु । १७ क.-टु. बुद्धाभि । १८ घ. द्विधा । १९ ग. य अन्ये । २० घ. स्यचि । २१ ख. समुदायाज्जा । २२ ग. °न्धस्य । २३ ग. स्थिते चैषां।