________________
बौद्धदर्शनम् ।
:१७ गांधर्मता धर्मस्थितिता धर्मनियामकता च प्रतीत्यसमुत्पादानुलोमता' इति । तथा. गतानां बुद्धानां मते धर्माणां कार्यकारणरूपाणी या धर्मता कार्यकारणभावरूपा एषोत्पादादनुत्पादाद्वा स्थिता। यस्मिन्सति यदुत्पद्यते यस्मिन्नसति यनोत्पद्यते तत्तस्य कारणस्य कार्यमिति । धर्मतेत्यस्य विवरणं धर्मस्थितितेत्यादि । धर्मस्य कार्यस्य काणानतिक्रमेण स्थितिः । स्वार्थिकस्तल्पत्ययः। धर्मस्य कारणस्य कार्य प्रति नियामकता । नन्वयं कार्यकारणभावश्चेतनमन्तरेण न संभवतीत्यत उक्तं प्रतीत्येति । कारणे सति तत्प्रतीत्य प्राप्य समुत्पादेऽनुलोमताऽनुसारिता या सैव धर्मतोत्पादादनुत्पादाद्वा धर्माणां स्थिता । न चात्र कश्चिचेतनोऽधिष्ठातो. पलभ्यत इति सूत्रार्थः । प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो यथा-बीजादकरोऽ. डरात्काण्डं काण्डा मालो नालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलम् । न चात्र बाह्ये समुदाये कारणं बीजादि कार्यमडरादि वा चतयते-अहमङ्कुरं निवर्तयामि अहं बीजेन निर्वर्तित इति । एवमाध्यात्मिकेष्वपि कारणद्वयमवगन्तव्यम् ।
पुर:स्थिते प्रमेयाब्धौ ग्रन्थविस्तरभीरुभिः। इति न्यायेनोपरम्यते । तदुभनिरोधः, तदनन्तरं विमलज्ञानोदेयो वा मुक्तिः । तन्निरोधोपायो मार्गः । स च तत्त्वज्ञानम् । तच्च प्राचीनभावनाबला. द्भवतीति परमं रहस्यम् । सूत्रस्यान्तं पृच्छतां कथितं भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका भवन्त्विति । भगवताऽभिहिततया सौत्रान्तिकसंज्ञा संजातेति।
केचन बौद्धाः-बाह्येषु गन्धादिष्यान्तरेषु रूपादिस्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्व शून्यमिति प्राथमिकान्विनेयानचीकथद्भगवान् । द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टोन्विज्ञानमेकं सदिति । तृतीयानुभयं सत्यमित्योंस्थिताविज्ञेयमनुमेयमिति । सेयं विरुद्धा भाषेति वर्णयन्तो वैभाषिकाख्यया ख्याताः । एषा हि तेषां परिभाषा समुन्मिषति । विज्ञयानुमेयत्ववादे प्रात्यक्षिकस्य कस्यचिदप्यर्थस्याभावेन व्याप्तिसंवेदनस्थानाभावेनानुमानप्रवृत्यनुपर्पत्तिः सकललोकानुभवविरोधश्च । ततश्चार्थो द्विविधः । ग्राह्योऽध्यवसेयश्च । तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणम् । कल्पनापोढत्वात् । अध्यवसायः सविकल्पकरूपोऽ
१ ख. ग. °णां ध । २ क. एवोत्पा । घ.एषामुत्पा । ३ घ. स्य कार्य । ४ ख. नन्वियं । ५ घ. कार' । ६ क. 'लभ्य इ । ७ च. °बन्धनः । बी । ८ क. ग. ङ.-च. चेतीयते । ख. चेतयन्ते । ९ क. ख. ग. तेऽपि । १० क.-ख. ग. उ. च. 'भिरुप । ११ ख. यविरो' । १२ च. °दया मु। १३ च.नचक । १४ ख. "नं । १५ क. "त्याशयस्थि । ग. "त्याह स्थि । च. 'त्यास्थाय स्थि। १६ क. घ.-च. पत्तेः स । १७ टु.-च. 'नाप्रोढ । घ. 'नादूरापेतत्वात् । ।