________________
बौद्धदर्शनम् । सर्वदोपकारापत्तावङ्कुरस्यापि सदोदयः प्रसज्येत । तस्मादतिशयार्थमपेक्ष्यमाणैः सहकारिभिरतिशयान्तरमाधेयं बीजे । तस्मिन्नप्युपकारे पूर्वन्यायेन सहकारिसापेक्षस्य बीजस्य जनकत्वे सहकारिसंपाद्यबीजगतातिशयानवस्था प्रथमा व्यवस्थिता । अथोपकारः कार्यार्थमपेक्ष्यमाणोऽपि बीजादिनिरपेक्षं कार्य जनयति तत्सापेक्षं वा । प्रथमे बीजादेरहेतुत्वमापतेत् । द्वितीयेऽपेक्ष्यमाणेन बीजादिनोपकारेऽतिशय आधेयः । एवं तत्र तत्रापति बीजादिजन्यातिशयनिष्ठातिशयपरम्परापात इति द्वितीयाऽनवस्था स्थिरा भवेत् । एवमपेक्ष्यमाणेनोपकारेण बीजादौ धर्मिण्युपकारान्तरमाधेयमित्युपकाराधेयबी. जाश्रयातिशयपरम्परापात इति तृतीयाऽनवस्था दुरवस्था स्यात् । अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तोऽन्यश्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इति फलितं ममापि मनोरथद्रुमेण । तस्मात्क्रमेणाक्षणिकस्यार्थक्रिया दुर्घटा ।। ___नाप्यक्रमेण घटते । विकल्पासहत्वात् । तथाहि-युगपत्सकलकार्यकरणसमर्थः स्वभावस्तदुत्तरकालमनुवर्तते न वा । प्रथमे तत्कालवत्कालान्तरेऽपि तावकार्यकरणमापतेत् । द्वितीये स्थायित्ववृत्त्याशा मूषिकभक्षितवीजादावङ्कुरादिजननप्रार्थनामनुहरेत् । यद्विरुद्धधर्माध्यस्तं तन्नाना यथा शीतोष्णे । विरुद्धधर्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः । न चायमसिद्धो हेतुः । स्थायिनि कालभेदेन सामर्थ्यासामथ्र्ययोः प्रसङ्गतद्विपर्ययसिद्धत्वात् । तत्रासामर्थ्यसा. धको प्रसङ्गतद्विपर्ययो प्रागुक्तौ । सामर्थ्यसाधकावभिधीयते । यद्यदा यजननासमर्थ तत्तदा तन्न करोति यथा शिलाशकलमङ्कुरम् । असमर्थश्वायं वर्तमानार्थक्रियाकरणकाले+ऽतीतानागतयोरर्थक्रिययोरिति प्रसङ्गः। यवदा पत्करोति तत्तदा तंत्र समर्थं यथा सामग्री स्वकार्ये । करोति चाय
___ * हेत्वभाविपर्ययः सामर्थ्यासामर्थ्ययोरिति शेष इति घ. पु. टिप्पण्याम् । + इत उत्तरमयं ग्रन्थो घ. पुस्तके। स यथा--असमर्थत्वेऽपि यद्ययं वर्तमानकाले क्रियां करोति तदाऽतीतानागतयोरर्थक्रिये कुर्यादित्यप्रसङ्गः । इति । ।
१च. कारवदङ्कु । २ च. दयं प्रसज्जेद' । ३ ग. 'स्मिन्नुप । ४ ग. पाद्यापकारवत्यति । ५ क. °द्य बीजवत्यति । ख. घ. °द्य बीजवृत्त्यति । ६ क. पेक्षः का' । ७ ग. दि. नि । ८ घ. जात । ९ ख. स्मारक्ष । क. घ.-च. स्मादक्ष । १० क. ख. काला । ११ घ. 'र्थ्ययोरप्रसङ्गात् । तद्वि' । १२ घ. °धकाप्र । १३ ग. कुरे। अ । १४ ङ. योरतिप्र । १५ ख. घ. °रित्यप्र । १६ ग. तत्स । १७ क. ग. घ. कार्य क° । ख. कार्यम् । क।