________________
पातञ्जलदर्शनम् ।
१३१ संनिधिवशात्कार्यकारित्वम् । तदुक्तं वाचस्पतिमिश्रेण व्यासभाष्यव्याख्यायाम्--
प्रसुप्तास्तत्वलीनानां तन्ववस्थाश्च योगिनाम् ।
विच्छिन्नोदाररूपाश्च क्लेशा विषयसङ्गिनाम् ।' इति । द्वंद्ववत्स्वतन्त्रपदार्थयानवगमादुभयपदार्थप्रधानत्वं नाऽऽशन्तिम् । तस्मात्पक्षेत्रयेऽपि क्लेशादिनिदानत्वमाविद्यायाः प्रसिद्धं हीयेतेति चेत्तदपि न शोभनं विभाति । पर्युदासशक्तिमाश्रित्याविद्याशब्देन विद्याविरुद्धस्य विपर्ययज्ञानस्याभिधानमिति वृद्धैरङ्गीकारात् । तदाह
नामधात्वर्थयोगे तु नैव नञ् प्रतिषेधेकः । वदैत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥ इति । वृद्धप्रयोगगम्यो हि शब्दार्थः सर्व एव नः ।
तेन यत्र प्रयुक्तो यो न तस्मादपनीयते ॥ इति । वाचस्पतिमित्रैरप्युक्तम्-लोकाधीनावधारणो हि शब्दार्थयोः संबन्धः । लोके चोत्तरपदार्थप्रधानस्यापि नत्र उत्तरपदाभिधेयोपमर्दकस्य तद्विरुद्धतया तत्र तत्रोपलब्धेरिहापि तद्विरुद्धे प्रवृत्तिरिति ।
एतदेवाभिप्रेत्योक्तम्-अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ( पात० यो० सू० २ । ५ इति ) । अतस्मिंस्तबुद्धिर्विपर्यय इत्युक्तं भवति । तद्यथा-अनित्ये घटादौ नित्यत्वाभिमानः । अशुचौ कायादौ शुचि. त्वप्रत्यय:-- . स्थानाद्वीजादुपष्टम्भान्निष्यन्दानिधनादपि ।
कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥ इति । परिणामतापसंस्कारदुःखैर्गुणवृत्त्याविरोधाच्च दुःखमेव सर्व विवेकिनः ( पात० यो० सू० २ । १५) इति न्यायेन दुःखे स्रक्चन्दनवनितादौ सुखत्वा. रोपः । अनात्मनि देहादावात्मबुद्धिः । तदुक्तम्--
अनात्मनि च देहादावात्मबुद्धिस्तु देहिनाम् । अविद्या तत्कृतो बन्धस्तन्नाशो मोक्ष उच्यते ॥ इति ।
१ घ. म् । अत उक्तं । २ घ. "सुप्ततनुली । ३ ग. °नत्वे ना । ४ क -ग. डा. च, 'क्षद्वये । ५ च. °धकृत् । व° । ६ ग. दन्त्यब्रा । ७ टु.-च. गम्या हि शब्दार्थाः स । ८ च. 'कोऽयं न । ९ क. ग. कत्वस्य । १० घ. "त्मज्ञप्तिर' । ११ क. ग. गुणा । १२ घ. धाय दु। १३ ख. ङ-च. नाशे मो।