________________
१३२
सर्वदर्शनसंग्रहे---
एवमयमविद्या चतुष्पदा भवति । नन्वेतेष्वविद्याविशेषेषु किंचिदनुगतं सामान्यलक्षणं वर्णनीयम् । अन्यथा विशेषस्यासिद्धेः । तथा चोक्तं भट्टाचार्यै:सामान्यलक्षणं त्यक्त्वा विशेषस्यैव लक्षणम् ।
न शक्यं केवलं वक्तुमतोऽप्यस्य न वाध्यता ।। इति । तदपि न वाच्यम् । अतस्मिंस्तद्बुद्धिरिति सामान्यलक्षणाभिधानेन दत्तोत्तरत्वात् । सत्त्वपुरुषयोरहमस्मीत्येकताभिमानोऽस्मिता । तदप्युक्तं - दृक् दर्शनशक्योरेकात्मतेवास्मिता (पात० यो० सू० २ । ६ ) इति । सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गधों रागः । दुःखाभिज्ञस्य तदनुस्मृतिपुरःसरं तत्साधनेषु निवृत्तिद्वेषः । तदुक्तं - सुखानुशयी रागः ( पात० यो० सू० २ । ७ ) दुःखानुशयी द्वेषः ( पात० यो० सू० २ । ८ ) इति । किमत्रानुशयिशब्दे ताच्छील्यार्थे णिनिरिनिर्वा मत्वर्थीयोऽभिमतः । नाऽऽद्यः । सुप्यजातौ णिनिस्ताच्छील्ये (पा०सू० ३।२ / ७८) इत्यत्र सुपीति वर्तमाने पुनः सुग्रहणस्योपसर्गनिवृत्त्यर्थत्वेन सोपसर्गाद्धातोर्णिनेरनुत्पत्तेः । यथाकथंचितदङ्गीकारेऽप्यचोऽणिति (पा० सू० ७ । २ । ११५ ) इति वृद्धिमसक्तावर्तिशाय्यादिपदवदनुशायिपदस्य प्रयोगप्रसङ्गात् । न द्वितीयः ।
एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ।
इति तत्प्रतिषेधात् । अत्र चानुशयशब्दस्याजन्तत्वेन कृदन्तत्वात् । तस्मादनुशयिशब्दो दुरुपपाद इति चेन्नैतद्भद्रम् । भवानवबोधात् । प्रायिकाभिप्रायमिदं वचनम् । अत एवोक्तं वृत्तिकारणं - इतिकरणो विवक्षार्थः सर्वत्राभिसंबध्यत इति । तेन क्वचिद्भवति कार्यं कार्यिकस्तण्डुली तण्डुलिक इति । तथा च कृदन्त | ज्जातेश्च प्रतिषेधस्य प्रायिकत्वम् । अनुशयशब्दस्य कृदन्ततयेने रूपपत्तिरिति सिद्धम् ।
पूर्व जन्मानुभूतमरणदुःखानुभववासनाबलात्सर्वस्य प्राणभृन्मात्रस्या कृमेरौं च विदुषः संजायमानः शरीरविषयादेर्मम वियोगो मा भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानां भँयरूपोऽभिनिवेशः पञ्चमः क्लेशः । मान भूवं हि भूयासमिति प्रार्थनायाः प्रत्यात्ममनुभवसिद्धत्वात् । तदाह - स्वरसवाही विदुषोऽपि तथा
१ ख. ध. च. 'तुष्पादा | २ क. क्षणां मुक्त्वा । ग. क्षणं मुक्त्वा । ३ घ. 'स्मितेति । त° । ४ क. - ङ. दुःखज्ञ । ५ क ग ङ. च निन्दाद्वेषः । ६ च 'नुगदिश । ७ क. - ग. ङ. च. 'चिद । ८ क. - ग. ङ. च. तिशय्या" । ९ घ. शयश । १० घ. भावनान' । ११ घ. बोधप्रायि' । १२ च. 'णेतिकरणेन । इ° । १३ घ. कार्य का । च. कार्य : कार्या कार्यकस्तण्डुलिर्मण्डाल' । १४ क °रा वि' । १५ घ. भवरू । १६ घ. भूत्वा संतिष्ठामीति ।