________________
१३३
पातञ्जलदर्शनम् । रूढोऽभिनिवेशः (पात. यो. सू० २ । ९) इति । ते चाविद्यादयः पश्च सांसारिकविविधदुःखोपहारहेतुस्वेनं पुरुषं क्लिनन्तीति क्लेशाः प्रसिद्धाः।
कर्माणि विहितमतिषिद्धरूपाणि ज्योतिष्टोमब्रह्महत्यादीनि । विपाकाः कर्मफैलानि जात्यायुभॊगाः । आ फलविपाकाच्चित्तभूमौ शेरत इत्याशया धर्माधर्मसंस्काराः । तत्परिपन्थिचित्तवृत्तिनिरोधो योगः । निरोधो नौभा. वमात्रमभिमतम् । तस्य तुच्छत्वेन भावरूपंसाक्षात्कारजननक्षमत्वासंभवात् । किंतु तदाश्रयो मधुमतीमधुप्रतीकाविशोकासंस्कारशेषाव्यपदेश्यश्चित्तस्यावस्थाविशेषः । निरुध्यन्तेऽस्मिन्प्रमाणाद्याश्चित्तवृत्तय इति व्युत्पत्तेरुपपत्तेः। - अभ्यासवैराग्याभ्यां वृत्तिनिरोधः। तत्र स्थितौ यत्नोऽभ्यासः (पात यो. मू० १। १२-१३)। वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः प्रशान्तवाहितारूपः परिणामविशेषः स्थितिः । तं निमित्तीकृत्य यत्नः पुनः पुनस्तथात्वेन चेतास निवेशनमभ्यासः । चर्मणि दीपिनं हन्तीतिवनिमित्तार्थेयं सप्तमीत्युक्तं भवति । दृष्टानुअविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् (पात० यो० सू० १ । १५ ) । ऐहिकपारत्रिकविषयादौ दोषदर्शनानिरभिलाषस्य ममैते विषयाँ वश्या नाहमेतेषां वश्य इति विमर्शो वैराग्यमित्युक्तं भवति । समाधिपरिपन्थिक्लेशतनूकरणार्थ समाधिलाभार्थं च प्रथमं क्रियायोगविधानपरेण योगिना भवितव्यम् । क्रियायोगसंपादनेऽभ्यासवैराग्ययोः संभवात् । तदुक्तं भगवता___आरुरुक्षोर्मुनेयोगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते (भ० गी०६।३) इति । क्रियायोगथोपदिष्टः पतञ्जलिना-तपास्वाध्यायेश्वरप्रणिधानानि क्रियायोगः (पात यो० मू० २ । १) इति । तपास्वरूपं निरूपितं याज्ञवल्क्येन
विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः ।
शरीरशोषणं पाहुस्तपसां तप उत्तमम् ।। इति । प्रणवगायत्रीप्रभृतीनामध्ययनं स्वाध्यायः । ते च मन्त्रा द्विविधाः । वैदिकाँस्तान्त्रिकाश्च । वैदिकाश्च द्विविधाः। प्रगीता अप्रगीताश्च । तत्र प्रगीताःसामानि ।
१ घ. विपाकः । २ क. फलजा । ३ च. तत्त्वप । ४ क ख. घ. नाम भा। ५ ख घ. 'तम् । न त्वभावमात्रम् । त°। ६ ख. °वसाक्षात्कारज । ७ ख. ग. ङ.-च. पसंस्कारज । ८ ख. "धुराम । ९ घ. रविशेषाव्य । १० ख. त्र निवेशनमभ्या । ११ क. ख. स्थितो। १२ क. "नुश्रावि । १३ घ. षये विौं । १४ घ. 'या न व° । १५ क. ख. घ, नादिक्रि । १६ ख. 'तीनां मन्त्राणाम' । १५ घ. काश्चावैदि।