________________
१३०
सर्वदर्शनसंग्रहे
पुनः पुनर्निवेशनम् । भाव्यं च द्विविधम् । ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि । जड जडभेदात् । जडानि प्रकृतिमहद हंकारादीनि चतुर्विंशतिः । अजडः पुरुषः । तत्र यदा पृथिव्यादीनि स्थूलानि विषयत्वेन (SSदाय पूर्वापरानुसंधानेन शब्दार्थोल्लेखसंभेदेने च भावना प्रवर्तते स समाधिः सवितर्कः । यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्तते तदा सविचारः । यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुखप्रकाशमयस्य सत्त्वस्योद्रेकात्सानन्दः । यदा रजस्तमोलेशानभिभूतं शुद्धं सत्त्वमालम्बनीकृत्य या प्रवर्तते भावना तद तस्यां सत्त्वस्यें न्यग्भावाश्च्चितिशक्ते रुद्रेकाच्च सत्तामात्रावशेषत्वेन सास्मितः समाधिः । तदुक्तं पतञ्जलिना - वितर्कविचारानन्दस्मितारूपानुगमात्संप्रज्ञात: ( पात० यो० सू० १।१७ ) इति । सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः समाधिः । ननु सर्ववृत्तिनिरोधो योग इत्युक्ते संप्रज्ञाते व्याप्तिर्न स्यात् । तत्र सत्त्वप्रधानायाः सत्त्वपुरुषान्यताख्या तिलक्षणाया वृत्तेरनिरोधादिति चेत्तदेतद्वर्तिम् । क्लेशकर्मविपाकाशय परिपन्थिचित्तवृत्तिनिरोधो योग इत्यङ्गीकारात् । क्लेशाः पुनः पञ्चधा प्रसिद्धाः - अविद्यास्मितारागद्वेषामिनिवेशा: क्लेशाः (पात० यो० सू० २/३ ) इति ।
1
-ry
नन्त्रविद्येत्यत्र किमाश्रीयते । पूर्वपदार्थप्राधान्यममक्षिकं वर्तत इतिवत् । उत्तरपदार्थप्राधान्यं वा राजपुरुष इतिवत् । अन्यपदार्थप्राधान्यं वाऽमक्षिको देश इतिवत् । तत्र न पूर्वः । पूर्वपदार्थप्रधानत्वेऽविद्यायां प्रसज्यप्रतिषेधोपपत्तों क्लेशादिकारकत्वानुपपत्तेः । अविद्याशब्दस्य स्त्रीलिङ्गत्वाभावापत्तेश्च । न द्वितीयः । कस्यचिद्भावेन विशिष्टाया विद्यायाः क्लेशादिपरिपन्थित्वेन तद्बीजत्वानुपपत्तेः । न तृतीयः । नमोऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपश्चेति वृत्तिकारवचनानुसारेणाविद्यमाना विद्या यस्याः साऽविद्या बुद्धिरिति समासार्थसिद्धौ तस्या अविधायाः क्लेशादिवीजत्वानुपपत्तेः । विवेकख्यातिपूर्वक सर्ववृत्तिनिरोधसंपन्नायास्तस्यास्तथात्वप्रसङ्गाच्च । उक्तं चास्मितादीनां क्लेशानामविद्यानिदानत्वम् - अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नेोदराणाम् (पात० यो० सू० २।४) इति । तत्र प्रसुप्तत्वं प्रबोध सहकार्यभावेनानभिव्यक्तिः । तनुत्वं प्रतिपक्षमावनया शिथिलीकरणम् । विच्छिन्नत्वं बलवता क्लेशेनाभिभवः । उदारत्वं सहकारि
99
१ क. ख. ग. 'न भा' । २ च. 'दास' । ३ क. ख. ग. घ. तस्य । ४ घ. 'स्य प्रत्यग्भा । ५ ङ -सत्त्वमा ं । ६ क. न्दात्मिकास्मि । ७ घ. तदार्तम् । ८ घ. 'द्यायाः प्र° । ९ घ. 'स्य तृतीपत्तौ त्रिलि । १० क ख 'प्र' । ११ क. - ङ. 'त्तिसं' । १२ घ. 'दार मि' । ङ. दारणमि ।