________________
पातञ्जलदर्शनम् । वर्तमानत्वादिलक्षणपरिणामः । नीलाघालोचनस्य स्फुटत्वादिरवस्थापरिणामः । कटकादेस्तु नवपुराणत्वादिरवस्थापरिणामः । एवमन्यत्रापि यथासंभवं परिणामत्रितयमूहनीयम् । तथा च प्रमाणादिवृत्तीनां चित्तधर्मत्वात्तनिरोधोऽपि तदाश्रय एवेति न किंचिदनुपपन्नम् ।
ननु वृत्तिनिरोधो योग इत्यङ्गीकारे सुषुप्त्यादौ क्षिप्तमूढादिचित्तवृत्तीनां निरोधसंभवाद्योगत्वप्रसङ्गः । न चैतयुज्यते । क्षिप्ताद्यवस्थासु क्लेशाहाणादेरसंभवानिःश्रेयसपरिपन्थित्वाच्च । तथाहि-क्षिप्तं नाम तेषू तेषु विषयेषु क्षिप्यमाणमस्थिर चित्तमुच्यते । तमासमुद्रे मनं निद्रावृत्तिभावितं मूढमिति गीयते । क्षिप्ताद्विशिष्टं चित्तं विक्षिप्तमिति गीयते । विशेषो नाम
चञ्चलं हि मनः कृष्ण प्रमाथि बलबदृढम् । ( भ० गी०६ । ३४ ) इति न्यायेनास्थिरस्यापि मनसः कादाचित्कसमुद्भूतविषयस्थैर्यसंभवेन स्थैर्यम् । अस्थिरत्वं च स्वाभाविक व्याध्याद्यनुशयजनितं वा । तदाह-व्याधिस्त्यानसंशयममादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकवानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ( पात० यो० सू० १ । ३० ) इति । तत्र दोषत्रयवैषम्यनिमित्तो ज्वरादियाधिः । चित्तस्याकर्मण्यत्वं स्त्यानम् । विरुद्धकोटिदयार्गवाहि ज्ञानं संशयः। समाधिसाधनानामभावनं प्रमादः । शरीरवाचित्तगुरुत्बादप्रवृत्तिरालस्यम् । विषयामिलापोऽविरतिः । अतस्मिंस्तबुद्धिन्ति दर्शनम् । कुतश्चिनिमित्तात्समाधिभूमेरलाभोऽलब्धभूमिकत्वम् । लब्धायामपि तस्यां चित्तस्याप्रतिष्ठाऽनवस्थितत्वमित्यर्थः । तस्मान्न वृत्तिनिरोधो योगपंक्षनिक्षेपमहतीति चेन्मैवं वोचः । हेयभूतक्षिप्ताद्यवस्थात्रये वृत्तिनिरोधस्य योगस्वासंभवेऽप्युपादेययोरेकाग्रनिरुद्धावस्थयोईत्तिनिरोधस्य योगत्वसंभवात् । एकतानं चित्तमेकाप्रमुच्यते । निरुद्धसकलवृत्तिकं संस्कारमात्रशेष चित्तं निरुद्धमिति भण्यते ।
स च समाधिविविधः । संप्रज्ञातासंप्रज्ञातभेदात् । तत्रैकाग्रचेतसि यः प्रमागादिवृत्तीनां बाह्यविषयाणां निरोधः स संप्रज्ञातसमाधिः । सम्यक्प्रज्ञायतेऽस्मिन्मकृतेविविक्ततया ध्येयमिति व्युत्पत्तेः। स चतुर्विधः । सवितर्कादिभेदात् । समाधिर्नाम भावना । सा च भाव्यस्य विषयान्तरपरिहारेण चेतसि
१ क.ख. ग. न च पु । २ ग. 'न्यच्चापि । ३ घ. `त्तनिरो । ४ घ. °क्षिप्तादिचित्तवृत्ते मेढा । ५ घ. न त्वेत° ६ क. ख. ग. °षु वि । ७ ङ.-च. ति मञ्चित्तं मू। ८ घ. वा. स्थिरत्वविक्षेपयोगान्त' । ९ क. ग. 'तत्त्वविक्षेपयोगान्त । १० च. "पा योगान्त । ११ ग. °दः । चि । १२ क. ग, घ. °मित्वम् । १३ °पक्षे नि । १४ क.-. °स्य हेयत्वसं । १५ घ. रे ।
१५