________________
१४२
सर्वदर्शनसंग्रहेन्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिः (पात यो० सू० ४।३४) इति । न चास्मिन्सत्यपि कस्मान्न जोयते जन्तुरिति वदितव्यम् । कारणाभावात्कार्याभाव इति प्रमाणसिद्धार्थे नियोगानुयोगयोरयोगात् । अपरथा कारणभावेऽपि कार्यसंभवे मणिवेधादयोऽन्धादिभ्यो भवेयुः । तथा चानुपपन्नार्थतायामाभाणको लौकिक उपपन्नार्थो भवेत् । तथा च श्रुतिः-अन्धो मणिमविन्दत । तमनङ्गलिरावयत । अग्रीवः प्रत्यमश्च ।। तमजिह्वा असश्चत (तै० आ०१॥ ११५)। अविन्ददविध्यत् । आवयद्गृहीतवान् । प्रत्यमुश्चपिनद्धवान् । असश्चताभ्यपूजयत्स्तुतवानिति यावत् । एवं च चिकित्साशास्त्रवद्योगशास्त्रं चतुव्यूहम् । यथा चिकित्साशास्त्रं गेगो रोगहेतुरारोग्यं भेषजमिति तथेदमपि संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति । तत्र दुःखमयः संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयभोगहेतुः । तस्याऽऽत्यन्तिकी निवृत्तिानम् । तदुपायः सम्रदर्शनम् । एवमन्यदपि शास्त्रं यथासंभवं चतुर्ग्रहमूहनीयमिति सर्वमवदातम् * ।
इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पातञ्जलदर्शनम् ॥
____ + ' इतः परं सर्वदर्शनाशरोमणिभूतं शांकरदर्शनमन्यत्र लिखितमित्यत्रोपेक्षितमिति ' । इयं पङ्क्तिः केषुचित्पुस्तकेषु वर्तते।
१ घ. °ति। नागास्मि । २ घ. जयति । ३ घ. या आभा । ४ ख. उभयत्रार्थो । ५ घ. ग्यं तदुपायो भे। ६ ङ.-च. °पि सं° । ख. °पि संसारासं।