________________
पातञ्जलदर्शनम् ।
१४१ ऋतंभरा तत्र प्रज्ञा ( पात यो० सू० १।४८ ) इति । ऋतं सत्यं बिभर्ति कदा. चिदपि न विपर्ययेणाऽऽच्छाधते । तत्र स्थितौ दाढयें सति द्वितीयस्य योगिनः सा प्रज्ञा भवतीत्यर्थः । चत्वारः खलु योगिनः प्रसिद्धाः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति । तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः। न त्वनेन परचित्तादिगोचरज्ञानरूपं ज्योतिर्वशीकृतमित्युक्तं भवति । ऋतंभरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी तृतीयः । परवैराग्यसंपन्नश्चतुर्थः । मनोजविवादयो मधुप्रतीकसिद्धयः । तदुक्तं-मनोजवित्वं विकरणभावः प्रधानजयश्च (पात० यो० सू०३.४८) इति । मनोजवित्वं नाम कायस्य मनोवदनुत्तमो गतिलाभः । विकरणभावः . कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्षत्तिलाभः । प्रधानजयः प्रकृतिविकारेषु सर्वेषु वशित्वम् । एताश्च सिद्धयः करणपश्वकरूपजयात्तृतीयस्य योगिनः प्रादुर्भवन्ति । यथा मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः स्वदन्त इति मधुप्रतीकाः । सर्वभावाधिष्ठातृत्वादिरूपां विशोका सिद्धिः । तदाह-सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञत्वं च (पात यो० सू०३।४९) इति । सर्वेषां व्यवसा. याव्यवसायामकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञातृत्वम् । तदुक्तम्--विशोका वा ज्योतिष्मति (पात० यो० सू०१।३६) इति । सर्वत्तिप्रत्यस्तमैये परं वैराग्यमाश्रितस्य जात्यादिवीजानां क्लेशानां निरोधसमर्थो निर्बीजः समाधिरसंप्रज्ञातपदवेदनीयः संस्कारशेषताव्यपदेश्यश्चित्तस्यावस्थावि. शेषः । तदुक्तम्-विरॊमप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (पात० यो० सू० १।१८) इति । एवं च सर्वतो विरज्यमानस्य तस्य पुरुषधौरेयस्य क्लेशबीजानि निर्दग्धंशालिबीजकल्पानि प्रसवसामर्थ्य विधुराणि मनसा साध प्रत्यस्त गच्छन्ति ।
तदेतेषु प्रलीनेषु निरुपप्लवविवेकख्यातिपरिपाकवशात्कार्यकारणात्मकानां प्रधाने लयः चितिशक्तिः स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वाभिसंबन्धविधुरी वा कैवल्यं लभत इति सिद्धम् । द्वयी च मुक्तिरुक्ता पतञ्जलिना-पुरुषार्थशू
१ क. रूप्यं वै ज्यो । २ ङ.-च. 'रणाभा । ३ ख. मनुवदनोतमो' । ४ क. घ. वदनुत्तमो। ङ.-च. 'वदुत्तमो ।५ ङ.-च. रणाभा । ६ ख. प्रधानवि । ७ च. म् । श्रुताश्च । ८ ङ. 'वाद्यधि । ९ क-ग. ङ च. पादिरूपा वि । १० क. घ. वसेया । ११ घ. "त्मकगु। १२ घ. 'मयप । १३ ख. 'रता । १४ क. ख. रामः प्र । १५ घ. ग्धबीजनिर्दग्धशा । १६ ख घ.-च. °सत्ताभि । १७ क.ग. ङ. च. °रा कै।