________________
१४०
सर्वदर्शनसंग्रहे
मधुकरराजं मधुमक्षिका अनुवर्तन्ते तथेन्द्रियाणि चितमिति । तदुक्तं विष्णु
पुराणे -
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ वश्यता परमा तेन जायतेऽतिचलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥
( ६ । ७ । ४३ – ४४ ) इति । नाभिचक्र हृदय पुण्डरीकनासाग्रादावाध्यात्मिके हिरण्यगर्भवासवप्रजापतिप्रभृति के बाह्ये वा देशे चित्तस्य विषयान्तरपरिहारेण स्थिरीकरणं धारणा । तदाह – देशबन्धश्चित्तस्य धारणा (पात० यो० सू० ३ । १ ) इति । पौराणि
काश्च
प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् । वशीकृत्य ततः कुर्याच्चित्तस्थानं शुभाश्रये
( वि० पु० ६ । ७ । ४५ ) इति । तस्मिन्देशे ध्येयावलम्बनस्यै प्रत्ययस्य विसदृशमत्ययमहाणेन प्रवाहो ध्यानम् । तदुक्तं तत्र प्रत्ययैकतानता ध्यानम् ( पात० यो० सू० ३।२ ) इति । अन्यैरयुक्तम्
-
तद्रूपत्यका संततिवान्यनिः स्पृहा । तद्ध्यानं प्रथमैरङ्गः षड्भिर्निष्पाद्यते नृप ।
(वि० पु० ६ । ७ । ८९ ) इति ।
प्रसङ्गाच्चरममङ्गं प्रागेव (पृ०१२८) प्रत्यपीपदाम । तदनेन योगाङ्गानुष्ठानेनाऽऽदै रनैरन्तर्य दीर्घकॉलसेवितेन समाधिप्रतिपक्षक्लेशप्रक्षयेऽभ्यासवैराग्यवशान्मधुमत्यादिसिद्धिलाभो भवति ।
अथ किमेवमकस्मादस्मान तिविकटाभिरत्यन्ताप्रसिद्धाभिः कर्णाटगौडलाटभाषाभिर्भीषयते भवान् । नहि वयं भवन्तं भीषयामहे । किंतु मधुमत्यादिपदार्थव्युत्पादनेन तोषयामः । ततश्चाकुतोभयेन भवता श्रूयतामवधानेन । तत्र मधुमती नामाभ्यासवैराग्यादिवशादपास्तरजस्तमोलेशसुख प्रकाशमय सत्त्रभावनयाऽनवद्यवैशारद्याविद्योतनरूपऋतं भैरवज्ञाख्या समाधिसिद्धिः । तदुक्तम्
१ ख. ग. 'दिषु प्रसक्ता । २ घ. - च. 'श्रयम् । इ' । ३ घ स्य विप्र । ४ क. ग काम्यसं । ५ च. 'निष्प्रभा । ६ ख. 'दरं नै' । ७ घ. 'कालासे । ८ ख, 'राग्यव° । ९ क. भरा तत्र ।