________________
पातञ्जलदर्शनम् ।
त्रिगुणो द्विगुणो वायुर्वियदेकगुणं भवेत् । गुणं प्रति दश पलान्युर्व्यां पञ्चाशदित्यतः || एकै कहा निस्तोयादेस्तथा पञ्च गुणाः क्षितेः । गन्धो रसश्च रूपं च स्पर्शः शब्दः क्रमादमी || तत्त्वाभ्यां भूजलाभ्यां स्याच्छान्तिः कार्ये फलोन्नतिः । दीप्तास्थिरराव्यूहतुतिस्तेजोवाय्वम्बैरेषु च ॥ पृथ्व्यप्तेजोमरुद्वयोमतत्त्वानां चिह्नमुच्यते । आये स्थैर्ये स्वचित्तस्य शैत्ये कामोद्भवो भवेत् ॥ तृतीये को संताप चतुर्थे चञ्चलात्मता । पञ्चमे शून्यतैव स्यादथवाऽधर्मवासना || श्रुत्योष्टको मध्याङ्गुल्यौ नासापुटद्वये । सृक्किण्योः प्रान्त्यको पान्त्याङ्गुली शेषे दृगन्तयोः ॥ न्यस्यान्तःस्थपृथिव्यादिनत्त्वज्ञानं भवेत्क्रमात् । पीतश्वेतारुणश्यामैर्विन्दुभिर्निरुपधि खम् । इत्यादिना ।
4
१३९
यथावद्वायुतत्वमवगम्य तन्नियमने विधीयमाने विवेकज्ञानावरण कर्मक्षयो भवति । तपो न परं प्राणायामादिति ।
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । प्राणायामस्तु दान्ते तद्वदिन्द्रियजा मलाः ॥ इति च ।
तदेवं यमादिभिः संस्कृतमनस्कस्य योगिनः संयमाय प्रत्याहारः कर्तव्यः । चक्षुरादीनामिन्द्रियाणां प्रतिनियतरञ्जनीयकोपनीय मोहनीयमत्र णत्वप्रहाणेनाविकृत स्वरूपप्रवणचित्तानुकारः प्रत्याहारः । इन्द्रियाणि विषयेभ्यः प्रतीपमाहियन्तेऽस्मिन्निति व्युत्पत्तेः । ननु तदा चित्तमभिनिविशते नेन्द्रियाणि । तेषां बाह्यावेषयत्वेन तत्र सामर्थ्याभावात् । अतः कथं चित्तानुकारः । अद्धा । अत एव वस्तुतस्तस्यासंभवमभिसंधाय सादृश्यार्थमिवशब्दं चकार सूत्रकारः - स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः । ( पात० यो० सू० २ । ५४ ) । इति | सादृश्यं च चित्तानुकारनिमित्तं विषयासंप्रयोगः । यदा चित्तं निरुध्यते तदा चक्षुरादीनां निरोधे प्रयत्नान्तरं नापेक्षणीयम् । यथा
१ क. ख. ग. घ. ॰णोऽथ भवेद्वायु' । २ क. ख. ग. घ. ° तिपलदशानुर्व्या । ३ च. "स्थिताब्धि' । ४ क. ख. घ. म्बरं भुवः । ङ. व 'म्बरे तु च । ५ ख °धिकाम् । इ । ६ च. ने भवेत् । तत्वज्ञा' । ७ क. - ग. ङ. च. यपन्नगाः । इ । ८ क. ग. ङ. च. 'यमत्र ।