________________
१३८
सर्वदर्शनसंग्रहे-- स च वायुः सूर्योदयमारभ्य सार्धघटिकाद्वयं घटीयन्त्रस्थितघटभ्रमणन्याये. नैकैकस्यां नाडयां भवति । एवं सत्य हर्निशं श्वासप्रश्वासयोः षट्शताधिकैकविंशतिसहस्राणि जायन्ते । अत एवोक्तं मन्त्रसमर्पणरहस्यवेदिभिरजपापन्त्रसमर्पणे
षट्शतानि गणेशाय षट्सहस्रं स्वयंभुवे । विष्णवे पट्सहस्रं च षट्सहस्रं पिनाकिने । सहस्रमेकं गुरवे सहस्रं परमात्मने ।
सहस्रमात्मने चैवमर्पयामि कृतं जपम् ॥ इति । तथा नाडीसंचारणदशायां वायोः संचरणे पृथिव्यादीनि तत्त्वानि वर्णविशेषवशात्पुरुषार्थाभिलाषुकः पुरुषैरवगन्तव्यानि । तदुक्तमभियुक्तैः
सार्धं घटीद्वयं नाड्योरेकैकोऽदियाद्हेत् । अरघट्टघटीभ्रान्तिन्यायो नाड्योः पुनः पुनः ।। शतानि तंत्र जायन्ते निःश्वासोच्छ्वासयोना । खखषट्क द्वितः संख्याऽहोरात्रे सकले पुनः ॥ षट्त्रिंशद्रुवर्णानां या वेला भणने भवेत् । सा वेला मरुतो नडियन्तरे संचरतो भवेत् ॥ प्रत्येकं पञ्च तत्त्वानि नाडयोश्च वहमानयोः । वहन्त्यहर्निशं तानि ज्ञातव्यानि यतात्मभिः ॥ ऊर्ध्वं वह्निरंधस्तोयं तिरबीनः समीरणः। भूमिमर्धपुटे व्योम सर्वगं प्रवहेत्पुनः ।। वायोर्वलेरपां पृथ्व्या व्योम्नस्तत्त्वं वहेत्क्रमात् । वहन्त्योरुभयोर्नाडयोतिव्योऽयं क्रमः सदा ॥ पृथ्व्याः पलानि पश्चाशञ्चत्वारिंशत्तथाऽम्भसः । अग्नेस्त्रिंशत्पुनर्वायोविंशतिर्नभसो दश ॥ प्रवाहकालसंख्येयं हेतुस्तत्र प्रदर्यते । पृथ्वी पञ्चगुणा तोयं चतुर्गुणमथानलः ।।
१ क. 'योश्वर । ख. घ. 'योः पृथिव्यादिनिःसंचारणं चित्तावस्थावर्णविशेषकरणेऽत्र वशा । २ ख. घ. काचोद । ३ ङ.-च. तस्य । ४ च. व स्वस्वषट्करैः सं । ५ घ करकैः । ६ क.-ड. द्गुणव । ७ च. 'तो नाड्यां नाडयां सं°। ८ क. ख. नाडयां संचरतो गलत् । घ. नाडयां प्रत्येक च । ९ घ. गलतः । १० घ. रधो वारि ति । ११ घ. सर्वगः । १२ क.-ड. यं यथाक्रमम् । पृ । १३ क. ख. ग. ङ. च. "तुर्विहवलयोरथ । पृ० ।