________________
पातञ्जलदर्शनम् ।
.१३७ सू०२।३०) इति । नियमाः शौचादयः । तदप्याह-शौचसंतोषतपास्वाध्यायेश्वरप्रणिधानानि नियमाः ( पात० यो सू० २।३२ ) इति । एते च यमनियमा विष्णुपुराणे दर्शिता:
ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिहान् । सेवेत योगी निष्कामो योग्यता स्वं मनो नयन् ॥ स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि परं परस्मिन्प्रवणं मनः ॥ एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः । विशिष्टफलदाः कामे निष्कााणां विमुक्तिदाः॥
(वि० पु० ६। ७ । ३६-३८ इति । स्थिरसुखमासनं पद्मासनभद्रासनवीरासनस्वस्तिकासनदण्डकासनसोपाश्रयपर्यक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थानभेदादशविधम् ।
पादाङ्गुष्ठौ निवनीयाद्धस्ताभ्यां व्युत्क्रमेण तु । ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे॥
पासनं भवेदेतत्सर्वेषामभिपूजितम् । इत्यादिना याज्ञवल्क्यः पद्मासनादिस्वरूपं निरूपितवान् । तत्सर्वं तत एवावगन्तव्यम् । तस्मिन्नासनस्थैर्ये सति प्राणायामः प्रतिष्ठितो भवति । स च श्वासप्रश्वासयोर्गतिविच्छेदस्वरूपः । तंत्र श्वासो नाम बाह्यस्य वायोरन्तरानयनम् । प्रश्वासः पुनः कोष्ठयस्य बहिनिःसारणम् । तयोरुभयोरपि संचारणाभावः प्राणायामः । ननु नेदं प्राणायाम सामान्य लक्षणम् । तद्विशेषेषु रेचकपूरककुम्भकमकारेषु तदनुगतेरयोगादिति चेन्नैष दोषः । सर्वत्रापि श्वासप्रश्वां. सगतिविच्छेदसंभवात् । तथाहि-कोष्ठयस्य वायोर्बहिनिःसरणं रेचकः प्राणायामो यः पश्चासत्वेन प्रागुक्तः । बाबायोरन्तर्धारणं पूरको यः श्वासरूपः । अन्तःस्तम्भवृत्तिः कुम्भकः। यस्मिञ्जलमिव कुम्भे निश्चलतया प्राणाख्यो वायुरवस्थाप्यते । तत्र सर्वत्र श्वासप्रश्वासद्वयगतिविच्छेदोऽस्त्येवेति नास्ति श
गवकाशः । तदुक्तम्-- तस्मिन्सति श्वासप्रश्वासयोगतिविच्छेदः प्राणायामः (पात० यो० सू० २ । ४९) इति ।
१ क. ख, घ. यमः । २ घ. हिंता च। ३ घ. ग्रहाः । से° । ४ क. ख. ग. घ. च. 'मानां वि । ५ घ. निषाद । ६ घ. याज्ञवल्क्येन । ७ घ. °पितं तत्स । ८ घ. स चोच्छवासप्र । ९घ. तत्रोच्छ्वासो । १० घ. ह्यस्य वा ।११ घ. णं पूरक उच्छ्वास । १२ घ. °सयोयागैति।
१०