________________
१३६ सर्वदर्शनसंग्रहे
मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् ।
अन्योऽर्थो लक्ष्यते यत्सा लक्षणाऽऽरोपिता क्रिया ॥ (२९) इति । यच्छब्देन लक्ष्यत इत्याख्याते गुणीभूतं प्रतिपादनमात्रं परामृश्यते । सा लक्षगति प्रतिनिर्दिश्यमानापेक्षया तच्छब्दस्य स्त्रीलिङ्गत्वोपपत्तिः । तदुक्तं कैयटैःनिर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तत्तल्लिगमुपाददत इति । तत्र कर्मणि कुशल इत्यादि रूढिलक्षणाया उदाहरणम् । कुशाल्लातीति व्युत्पत्त्या दर्भादानकर्तरि यौगिकं कुशलपदं विवेचकत्वसारूप्यात्मवीणे प्रवर्तमानमनादिवृद्धव्यवहारपरम्परानुपातित्वेनाभिधानवत्प्रयोजनमनपेक्ष्य प्रव. तेते । तदाह--
निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् (त०वा०) इति । तस्मादूढिलक्षणायाः प्रयोजनापेक्षा नास्ति । यद्यपि प्रयुक्तः शब्दः प्रथम मुख्यार्थ प्रतिपादयति तेनार्थेनार्थान्तरं लक्ष्यत इत्यर्थधर्मोऽयं लक्षणा तथाऽपि तत्सतिपादके शब्दे समारोपितः सञ्शब्दव्यापार इति व्यपदिश्यते । एतदेवाभिप्रेत्योक्तं लक्षणाऽऽरोपिता क्रियेति ।
प्रयोजनलक्षणा तु षड्विधा। उपादानलक्षणा लक्षणलक्षणा गौर्णसारोपा गौणसाध्यवसाना शुद्धसारोपा शुद्धसाध्यवसाना चेति । कुन्ताः प्रविशन्ति । मश्चाः क्रोशन्ति । गौवाहीकः। गौरयम् । आयुर्घतम् । आयुरेवेदमिति यथाक्रममुदाहरणानि द्रष्टव्यानि । तदुक्तम्
स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।। सारोपाऽन्या तु यत्रोक्तो विषयी विषयस्तथा । विषष्यन्तःकृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका ।। भेदाविमौ च सारश्यात्संबन्धानतरतस्तथा। गोणी शुद्धौ च विज्ञेयो लक्षणा तेन षद्विधा ।
(का०प्र०२।१०-१२) इति । तदलं काव्यमीमांसाममनिमन्थनेन ।
स च योगो यमादिभेदवशादष्टाङ्ग इति निर्दिष्टः । तत्र यमा अहिंसा. दयः । तदाह पतञ्जलि:-अहिंसासस्थास्तेयब्रह्मचर्यापरिग्रहा यमाः(पात यो.
१ क. ख. ग. घ. 'मो यस्य ल । २ क. ख. घ. णसमारो । ३ च. 'ति । काणाः प्र। ४ क. ख. वाहिकः । ५ ख. °क्षणा चे । ६ क र्मथने ।