________________
१४७
शांकरदर्शनम् । संसारस्य रूपरसवद्विरोधाभावेन निवर्त्यनिवर्तकभावाभावात् । ननु सहानुवर्तमानो बोधः संसारं मा बाधिष्ट । सहावर्तमानस्तु बोधः प्रकाशस्तमोवदाधिप्यत इति चेत्तदेतद्रिक्तं वचः । अहमनुभवादन्यस्याऽऽत्मज्ञानस्य मूषिकविषाणायमानत्वात् । नन्वन्योऽयमनुभवः पामराणां मा स्म भवनाम । वेदान्तवचननिचयपर्यालोचनक्षमाणां परीक्षकाणां संभवत्येबेत्यपि न वक्तव्यम् । अबाधितानुभवविरोधेन वेदान्तवाक्यानां ग्रावप्लवनादिवाक्यकल्पत्वात् । न ह्यागमाः परःशत घटं पटयितुमुत्सहन्ते । न चाध्ययनविधिव्याकोपः । गुरुमतानुसारेण हुंफडादिवाक्यवजपमात्रोपयोगित्वेनाऽऽचार्यमतानुसारेण वा यजमानः प्रस्तर 'इत्यादिवाक्यवेत्स्तावकत्वेन वेदान्तसिद्धान्तस्याध्येतव्यत्वसंभवात् । तथा च प्रयोगः ---विवादास्पदं ब्रह्म विचार्यपदं न भवत्यफलत्वात्काकदन्तवदिति । तदाहुराचार्या:
अहंधियाऽऽत्मनः सिद्धेस्तस्यैव ब्रह्मभावतः। .
तज्ज्ञानान्मुक्त्यभावाच जिज्ञासा नावकल्पते ॥ इति । न च भेदेनाध्यस्तदेहादिनिवृत्तिः फलमित्यफलत्वहेतुरसिद्ध इति वेदितव्यम् । भेदग्रहो हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति न्यायेन भेदाग्रहपरिपन्थिनं भेदसंस्कारमपेक्षते । अनाकलितकलधौतस्य शक्तिशकले तत्समारोपानुपल. म्भात् । संस्कारश्च प्रमितिमाकाङ्क्षति । अननुभूते संस्कारानुदयात् । न च भ्रान्तिरूपोऽनुभवस्तत्करणमिति भणितव्यम् । भ्रान्तेरभ्रान्तिपूर्वकत्वेन कचित्ममितेरवश्याभ्युपगमयितव्यत्वात् । प्रयोगश्च-विमतावात्मानात्मानौ भेदेन प्रमितावभे. दायोग्यत्वात् । तमःप्रकाशवत् । न चाऽऽस्मानात्मनोरभेदायोग्यत्वलक्षणो हेतुरसिद्ध इति शडून्नीयम् । विकल्पासहत्वात् । तथाहि-अनात्माऽऽत्मपरिशेषः स्यादात्माऽनात्मपरिशेषो वा । आये मुक्तिदशायामिव परिदृश्यमानं जगदस्तमियात् । द्वितीये जगदान्ध्यं प्रसज्येत । तम:प्रकाशवद्विरुद्धस्वभावत्वाच दृग्दृश्ययोरात्मानात्मनोरभेदायोग्यत्वमवधेयम् । ततश्चार्थाध्यासानुपपत्तौ तत्पूर्वकस्य ज्ञानाध्यासस्यासंभवेन ब्रह्मणो विचार्यत्वासंभवाद्विचारात्मिका चतुर्लक्षणशारीरकमीमांसाऽनारम्भणीयेति पूर्वपक्षे प्राप्ते सिद्धान्तोऽभिधीयते-अहंपदाधिगम्यादन्यदात्मतत्त्वं नास्तीति न वक्तव्यम् । निरस्तसमस्तोपाधिकस्याऽऽत्मतत्तस्य श्रुत्यादिषु प्रसिद्धत्वात् । न च तेषामुपचरितार्थता । उपक्रमोपसंहारादिषड़ि
१ ख. वत्स्थानक १२ ख वादपदं ।३ क. त्मना सि । ४ ख. पेक्ष्यते। ५ ख. रूपानु । ६ ख. °यिष्यत्वात् । वि । ७ ख. सजेत् । ८ ख. पतेस्तत्पू ।