________________
१४८
सर्वदर्शनसंग्रहेधतात्पर्यलिङ्गवत्तया तत्त्वं बोधयतामुपचरितार्थत्वानुपपत्तेः । लिङ्गपदकं च पूर्वाचायेदर्शितम्
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ इति । तत्र सदेव सोम्येदमन आसीदित्युपक्रमः । ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इत्युपसंहारः । तयोर्ब्रह्मविषयत्वेनैक्यरूप्यमेकलिगम् । असकृत्तत्त्वमसीत्युक्तिरभ्यासः । मानान्तरागम्यत्वमपूर्वत्वम् । एक विज्ञानेन सर्वविज्ञानं फलम् । सृष्टिस्थितिप्रलयप्रवेशनियमनानि पश्चार्थवादाः । मृदादिदृष्टान्ता उपपत्तयः । तस्मादेतैर्लिङ्गैर्वेदान्तानां नित्य शुद्धबुद्धमुक्तस्वभावब्रह्मात्मपरत्वं निश्चेतव्यम् । तदित्थमोपनिषदस्याऽऽत्मतस्वस्याहमनुभवेऽनवभासमानत्वात्तस्यानुभवस्याध्यस्तात्मविषयत्वं सिद्धम् ।
कणभक्षाक्षचरणादिकक्षीकृतस्याऽऽत्मनो भानाभावादहमनुभवस्याध्यस्ता. त्मविषयत्वमेषितव्यम् । नैं तावदहमनुभवः सर्वगतत्वमात्मनोऽवगमयितुमीष्टे । अहमिहास्मि सदने जानानं इति प्रादेशिकत्वग्रहणात् । न चेदं देहस्य प्रादेशि. कत्वं प्रतिभासत इति वेदितव्यम् । अहमित्युल्लेखायोगात् । ननु यथा राज्ञः सर्वप्रयोजनविधातरि भृत्ये ममाऽऽत्मा भद्रसेन इत्युपचारस्तदात्मवचनस्याहं. शब्दस्य देह उपचार इति चेन्मैवं वोचः । उपचरितात्मभावस्य देहादेः स्वसमा. नाकृतिशिलापुत्रकादिवज्ज्ञातृत्वायोगात् । न च ज्ञातृत्वमप्युपचरितम् । प्रयोक्नुः स्वप्रतिपत्तिप्रकाशके प्रयोगे प्रतिपत्तृत्वोपचारानुपपत्तेः । अथ देहधर्मः प्रादेशिकत्वमात्मन्युपर्यंत तदा देहात्मनोर्भेदेन भवितव्यम् । प्रसिद्धभेदे माणवके सिंहशब्दवत्सांप्रतिकगौणत्वे तिरोहितभेदेन सार्षपादौ रसे तैलशब्दवबिरूढगौणत्वे वा गौणमुख्ययोर्भेदाध्यवसायस्य नियतत्वात् । अथ मम शरीरमिति भेदभानसंभवाद्गौणत्वं मन्येयास्तदयुक्तम् । अहंशब्दार्थस्य देहादिभ्यो निष्कृष्यासाधारणधर्मवत्त्वेन प्रतिभासमानत्वाभावात् । अपरथा लोकायतिकमतं नोदयमासादयेत् । मम शरीरमित्युक्तिस्तु राहोः शिर इतिवदौपचारिकी । मम शरीरमिति ब्रुवाणेनापि कस्त्वमिति पृष्टेन वक्षस्थलन्यस्वहस्तेन शृङ्गग्राहिकयाऽयमहमिति प्रतिवचनस्य दीयमानत्वेन देहात्मप्रत्ययस्य सकलानुभवसि. द्धत्वात् । तदुक्तम्--
१ ख. नादिप । २ क. ग.-च. 'वेनाव । ३ ख. ग. °नोऽनवभासाद । ४ ख. न तदाह । ५ ख. नयिति । ६ क. ग. °द्वदनात्म° । ७ ख. धर्मना । ८ ख. चर्यते।